8-3-68 अवात् च आलम्बनाविदूर्ययोः पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः प्राक् सितात् अड्व्यवाये अपि उपसर्गात् स्तन्भेः
अवशब्दादुपसर्गादुत्तरस्य स्तन्भेः सकारस्य मूर्धन्य आदेशो भवत्यालम्बनेऽर्थ आविदूर्ये च। आलम्बनमाश्रयणम्। अविदूरस्य भाव आविदूर्यम्। आलम्बने तावत् — अवष्टभ्यास्ते। अवष्टभ्य तिष्ठति। आविदूर्ये — अवष्टब्धा सेना। अवष्टब्धा शरत्। आलम्बनाविदूर्ययोरिति किम्? अवस्तब्धो वृषलः शीतेन। अनिणर्थ आरम्भः॥
अवात्स्तन्भेरेतयोरर्थयोः षत्वं स्यात् ॥
<<अवाच्चालम्बनाविदूर्ययोः>> - अवाच्च । आलम्बनं च आविदूर्यं चेति द्वन्द्वात्सप्तमीद्विवचनम् । एतोरिति । आलम्बनाविदूर्ययोरर्थयोर्विद्यमानस्य अवात्परस्य स्तम्भेरित्यन्वयः । अपूर्वविधिरयम्, इणः परत्वाऽभावादप्राप्तेः । आलम्बने — यथा — यष्टिवष्टभ्य तिष्ठतीति । आश्रित्येत्यर्थः । आविदूर्य — सामीप्यम् । अवष्टब्धा गौः । निरुद्धा सति समीपे आस्त उत्यर्थः ।
आलम्बनमुआश्रयणम् । विदूरमुविप्रकृष्टम्, तदन्यदविदूरम्, तस्य भाव आविदूर्यम्, अत एव निपातनात् नञ्पूर्वादपि तत्पुरुषाद्भावप्रत्ययः । अवष्टभ्येति । यष्ट।लदिकमवलम्ब्येत्यर्थः । अवष्टब्धेति । आसन्नेत्यर्थः । अवस्तब्ध इति । अभ्यादित इत्यर्थः ॥