स्तम्भेः

8-3-67 स्तन्भेः पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः प्राक् सितात् अड्व्यवाये अपि उपसर्गात्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

उपसर्गादिति वर्तते। स्तन्भेः सकारस्य उपसर्गस्थाद् निमित्तादुत्तरस्य मूर्धन्य आदेशो भवति। अभिष्टभ्नाति। परिष्टभ्नाति। अभ्यष्टभ्नात्। पर्यष्टभ्नात्। अभितष्टम्भ। परितष्टम्भ। अप्रतेरित्येतदिह नानुवर्तते, तेनैतदपि भवति — प्रतिष्टभ्नाति। प्रत्यष्टभ्नात्। प्रतितष्टम्भ॥

Siddhanta Kaumudi

Up

स्तन्भेः सौत्रस्य सस्य षः स्यात् । योगविभाग उत्तरार्थः । किंच । अप्रतेरिति नानुवर्तते । बाहुप्रतिष्टम्भविवृद्धमन्युः ॥

Laghu Siddhanta Kaumudi

Up

स्तन्भेः सौत्रस्य सस्य षः स्यात्। व्यष्टभत्। अस्तम्भीत्॥ {$ {! 7 युञ् !} बन्धने $} (धातुपाठे <{09.0011}>) ॥ युनाति, युनीते। योता॥ {$ {! 8 क्नूञ् !} शब्दे $} (धातुपाठे <{09.0012}>) ॥ क्नूनाति, क्नूनीते॥ {$ {! 9 द्रूञ् !} हिंसायाम् $} (धातुपाठे <{09.0013}>) ॥ द्रूणाति, द्रूणीते॥ {$ {! 10 पूञ् !} पवने $} (धातुपाठे <{09.0014}>) ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<स्तम्भेः>> - स्तम्भेः । नकारोपधनिर्देशस्य प्रयोजनमाह — सौत्र्येति ।स्तन्भुस्तुन्भु॑इति सूत्रनिर्दिष्टस्य नोपधस्येत्यर्थः । स हि प्रतिपदोक्तः । 'ष्टभि प्रतिबन्धे' इत्यस्य तु धातोरिदित्त्वान्नुमि लाक्षणिकत्वान्न ग्रहणम् । तेन विस्तम्भत इत्यादौ न षत्वम् ।उदः स्थास्तम्भ्वो॑रिति सूत्रे तु मोपधग्रहणादुभयोरपि ग्रहणं, मकारस्य उभयत्रापि लाक्षणिकत्वात् । ननुसदिस्तन्भ्योरप्रते॑रित्येकमेव सूत्रं कुतो न कृतमित्यत आह — योगविभाग उत्तरार्थ इति ।अवाच्चालम्बनाविदूर्ययो॑रित्युत्तरसूत्रे सदेरननुवृत्त्यर्थ इत्यर्थः । ननु सदेरस्वरितत्वादालम्बनाविदूर्ययोर्वृत्त्यभावादेव च अनुवृत्त्यभावः सिद्ध इत्यस्वारस्यादाह — किंचेति । नानुवर्तत इति । स्तम्भेरित्यत्र अप्रतेरित्यस्य स्तन्भिनाऽपि संबन्धः स्यादिति भावः ।अप्रते॑रित्यस्य स्तन्भावनन्वयो वृद्धिप्रयोगानुगत इत्याह -बाहुप्रतिष्टम्भेति ।

Padamanjari

Up

स्तन्भिः सौत्रो धातुः । अभिष्टभ्नातीति ।'स्तुन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च' इति श्नाप्रत्ययः, ठनिदिताम्ऽ इति नलोपः । अप्रतेरित्येतदिह नानुवर्तत इति । यद्यनुवर्तेत, पूर्वसूत्र एव स्तम्भिग्रहणं कुर्यात्किं योगविभागेन ? अस्ति प्रयोजनम्, किम् ? ठवाच्चालम्बनाविदूर्ययोःऽ इति वक्ष्यति, तत्स्तम्भेर्यथा स्यात्, सदेर्मा भूत् ? नैतदस्ति; एकस्मिन्नपि योगे यस्यालम्बनाविदूर्ये स्तः, स एवानुवर्तिष्यते, स्तम्भेरेव च ते सम्भवतः ॥