स्थाऽऽदिष्वभ्यासेन चाभ्यासस्य

8-3-64 स्थादिषु अभ्यासेन च अभ्यासस्य पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः प्राक् सितात् अड्व्यवाये अपि

Kashika

Up

index: 8.3.64 sutra: स्थाऽऽदिष्वभ्यासेन चाभ्यासस्य


प्राक् सितातिति वर्तते। उपसर्गात् सुनोति इत्यत्र स्थासेनयसेध इति स्थादयः, तेसु स्थादिषु प्राक् सितसंशब्दनातभ्यासेन व्यवाये मूर्धन्यो भवति, अभ्याससकारस्य च भवति इत्येवं वेदितव्यम्। अभ्यासेन व्यवाये अषोपदेशार्थं च अभिषिषेणयिषति, परिषिषेणयिषति। अवर्णान्ताभ्यासार्थं च अभितष्टौ, परितष्टौ। षणि प्रतिषेधार्थं च अभिषिषिक्षति, परिषिषिक्षति। अभ्यासस्य इति वचनम् नियमार्थम्, स्थादिषु एव अभ्याससकारस्य् मूर्धन्यो भवति, न अन्यत्र। अभिसुसूषति। अभिसिषासति।

Siddhanta Kaumudi

Up

index: 8.3.64 sutra: स्थाऽऽदिष्वभ्यासेन चाभ्यासस्य


प्राक् सितात् स्थादिष्वभ्यासेन व्यवायेऽपि षत्वं स्यात् । एषामेव चाभ्यासस्य न तु सुनोत्यादीनाम् । निषिषेध । निषिषिधतुः ॥

Balamanorama

Up

index: 8.3.64 sutra: स्थाऽऽदिष्वभ्यासेन चाभ्यासस्य


स्थाऽऽदिष्वभ्यासेन चाभ्यासय - स्थादिषु । अभ्यासेनेति तृतीयान्तम् । प्राक्सितादित्यनुवर्तते । तदाह - प्राक्सितादिति ।उपसर्गात्सुनोती॑ति सूत्रे स्थाधातुमारभ्यपरिनिविभ्यः सेवसिते॑त्यत्र सितशब्दात्प्राग्ये धातव उपात्तास्तेषु दशस्वित्यर्थः । निषिषेधेत्यादौ अभ्यासात्परस्य सस्य अभ्यासव्यवहत्वेन उपसर्गात्परत्वाऽभावादप्राप्तौ वचनम् । ननु निषिषेधेत्यादौ अभ्यासस्थसकारस्यौपसर्गादत्सुनोतीत्यनेनैव सिद्धत्वादभ्यासस्येति व्यर्थमित्याशङ्क्य नियमार्थमित्याह — एषामेवेति । अभ्यासस्थसकारस्य चेत्षत्वं तर्हि स्थादिदशानामेवेत्यर्थः । एवं चषू प्रेरणे॑, अभिसुसूषत । अत्राभ्यासस्य न षत्वम् । अभ्यासात्परस्य तु सस्य स्तौतिण्योरेवेति नियमान्न षत्वम् ।

Padamanjari

Up

index: 8.3.64 sutra: स्थाऽऽदिष्वभ्यासेन चाभ्यासस्य


द्वे एते वाक्ये - स्थादिष्वभ्यासेन व्यवाये त्वं भवति; अभ्यासस्य च षत्वं भवति तेष्वेव स्थादिष्विति । तत्राद्यं विध्यर्थम्, द्वितीयं नियमार्थम् । अषोपदेशार्थमिति । षोपदेशे तु परितिष्ठासतीत्यादौ सामान्यलक्षणेनैव सिद्धम् । अभिषिषेणयिषतीति । सेनयाऽभियातुमिच्छतीति विगृह्य'सत्यापपाश' इत्यादिना णिच्, टिलोपः, ततः सन्, द्विर्वचनम्, ह्रस्वः, एच ठिग्घ्रस्वादेशेऽ अव्युत्पन्नः सेनाशब्दः । यद्वा सहेनेन वतत इति सेना,'सहस्य सः संज्ञायाम्' इति सादेशः । यदा तु सिनोतेर्नप्रत्यये सेनेति व्युत्पाद्यते, तदास्त्येवा भिः षोषदेशत्वमेति । अभितष्ठाविति । आदेशसकारस्याप्यस्य षत्वं न सिद्ध्यति; इणाकोरभावात् । अभिषिषिक्षतीति । यद्यप्ययमादेशसकार इणश्च परः, तथाप्यभ्यासमपेक्ष षत्वं न सिद्ध्यति; स्तौतिण्योरेव षणीति नियमात् । अतः षणि यत्प्रतिषिद्धं षत्वं नियमेन व्यावर्तितं तदप्युपसर्गमाश्रित्य भवति । अथाभ्यासस्येति किमर्थम्, यावताभ्यासेनेत्यत्र क्रियापेक्षायां प्रकरणाद्व्यवाय इति सम्बध्यते, तच्चापिशब्दसन्निहितमेव प्रकृतमिति अव्यवायेऽपि षत्वं भविष्यति पूर्वसूत्रवत्, नार्थः ठभ्यासस्यऽ इत्यनेन ? अत आह - अभ्यासस्येति वचनं नियमार्थमिति । नियमस्य स्वरूपं दर्शयति - स्थादिष्वेवेति । विपरीतस्तु नियमो न भवति - स्थादिष्वभ्यासस्यैवेति । यदि स्यात्, अभ्यासेन व्यवाये षत्वविधानमनुपपन्नं स्यात् । अभिसुसूषतीति ।'षू प्रेरणे' , सन्,'सनि ग्रहगुहोश्च' इतीड्निषेधः । अत्र धातुसकारस्य स्तौतिण्योरेवेति नियमादषत्वम् । अभ्याससकारस्य त्वस्मान्नियमात् षत्वाभावः ॥