प्राक्सितादड्व्यवायेऽपि

8-3-63 प्राक् सितात् अड्व्यवाये अपि पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सेवसित० ८.३.७० इति वक्ष्यति। प्राक् सितसंशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामस्तत्राड्व्यवायेऽपि मूर्धन्यो भवतीत्येवं वेदितव्यम्, अपिशब्दादनड्व्यवायेऽपि। वक्ष्यति — <<उपसर्गात् सुनोतिसुवति०>> ८.३.६५ इति षत्वम्। अभिषुणोति। परिषुणोति। विषुणोति। निषुणोति। अभ्यषुणोत्। पर्यषुणोत्। व्यषुणोत्। न्यषुणोत्॥

Siddhanta Kaumudi

Up

सेवसित <{SK2275}> इत्यत्र सितशब्दात्प्राग् ये सुनोत्यादयस्तेषामड्व्यवायेऽपि षत्वं स्यात् । न्यषेधत् । न्यषेधीत् । न्यषेधिष्यत् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

ठिण्कोःऽ इति पञ्चमीनिर्देशाद्व्यवाये न प्राप्नोतीति वचनम् । अडित्यागमस्य ग्रहणम्, न प्रत्याहारस्य । एतच्च'हयवरट्' इत्यत्रोपपादितम् । प्राक् सितसंशब्दनादिति ।'परिनिविभ्यः सेवसित' इत्यतः । अपिग्रहणं किम् ? अव्यवधानेऽपि यथा स्यात्, अन्यथा विशेषवचनाद्व्यवाय एव स्यात् । अभ्यषुणोदिति ।'षुञ् अभिषेवे' , लङ्,'स्वादिभ्यः श्नुः' , अडागमः, पागेव यणादेशात् षत्वम्; कृते वा यणि यकारमेवेणमाश्रित्य षत्वम् ॥