8-3-52 पातौ च बहुलम् पदस्य पूर्वत्र असिद्धम् संहितायाम् कुप्वोः सः समासे छन्दसि पञ्चम्याः
पातौ च धातौ परतः पञ्चमीविसर्जनीयस्य बहुलं सकार आदेशो भवति छन्दसि विषये। दि॒वस्पा॑तु (ऋ० १०.१५८.१)। राज्ञस्पातु। न च भवति — परिषदः पातु॥
पञ्चम्या इत्येव । सूर्यो नो दिवस्पातु (सूर्यो॑ नो दि॒वस्पा॑तु) ॥
क्वचित् पठ।ल्ते - पाताविति धातुनिर्देश इति । अन्ये तूदाहरणपर्यालोचनया लोडन्तानुकरणं मन्यते ॥ षष्ठयाः पतिपुत्रपृष्ठपरापदपयस्पोषेषु । वाचस्पतिरिति ।'तत्पुरुषे कृति बहुलम्' इत्यलुक् ॥