8-3-51 पञ्चम्याः परौ अवध्यर्थे पदस्य पूर्वत्र असिद्धम् संहितायाम् कुप्वोः सः समासे छन्दसि
छन्दसीत्येव। पञ्चमीविसर्जनीयस्य सकारादेशो भवति परौ परतोऽध्यर्थे। दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञे (ऋ० १०.४५.१)। अग्निः हि॒मव॑त॒स्परि॑ (शौ०सं० ४.९.९)। दि॒वस्परि॑ (ऋ० १.१२१.१०)। महस्परि। पञ्चम्या इति किम्? अहि॑रिव भो॒गैः पये᐀्॑ति बा॒हुम् (ऋ० ६.७५.१४)। पराविति किम् ? एभ्यो वा एतल्लोकेभ्यः प्रजापतिः समैरयत्। अध्यर्थ इति किम् ? दि॒वस्पृ॑थि॒व्याः पर्योज॒ उद्भृ॑तम् (ऋ० ६.४७.२७)। अत्र परिः सर्वतोभावे, अध्यर्थ उपरिभावः॥
पञ्चमीविसर्गस्य सः स्यादुपरिभवार्थे परिशब्दे परतः । दिवस्परि प्रथमं जज्ञे (दि॒वस्परि॑ प्रथमं ज॑ज्ञे) । अध्यर्थे किम् । दिवस्पृथिव्याः पर्योजः (दि॒वस्पृ॑थि॒व्याः पर्योजः॑) ॥
अध्यर्थ इति । परेरिदं विशेषणम् । हिमवतस्परि, हिमवत उपरीत्यर्थः । व्यत्ययेन षष्ठयाः स्थाने पञ्चम्याः प्रयोगः । पर्योज उद्भतमिति । अत्र परिः सर्वतोभावे वर्तते ॥