सदेः परस्य लिटि

8-3-118 सदेः परस्य लिटि पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः

Siddhanta Kaumudi

Up

index: 8.3.118 sutra: सदेः परस्य लिटि


सदेरभ्यासात्परस्य षत्वं न स्याल्लिटि । निषसाद । निषेदतुः ।{$ {!855 शद्लृ!} शातने$} । विशीर्णतायामयम् । शातनं तु विषयतया निर्दिश्यते ॥

Balamanorama

Up

index: 8.3.118 sutra: सदेः परस्य लिटि


सदिष्वञ्जोः परस्य लिटि - स्तन्भुसिवु ।उपसर्गनिमित्तस्य प्रतिषेध॑ इति वार्तिकम् । न रपरसृपी॑त्यतो नेत्यनुवर्तते । 'सहे साडः सः' इत्यतः स इति षष्ठन्तमनुवर्तते । 'मूर्धन्य' इत्यधिकृतम् । तदाह — उपसर्गनिमित्त इत्यादि । स्तम्भुः सौत्रो धातुः ।षिवु ततन्तुसन्ताने॑ 'षह मर्षणे' पर्यसीषिवत् न्यसीषहदिति ।परिनिविभ्यः सेवे॑त्युपसर्गनिमित्तं षत्वं न । अभ्यासनिमित्तं तु षत्वं भवत्येव । आटिट्त आशिशदिति । आट् इ अ त्, आश् इ अ त् इति स्थितेणौ चङी॑त्युपधाह्रस्वात्प्रागन्तरङ्गत्वा॒चङी॑ति द्वित्वमाशङ्क्याह — बहिरङ्गोऽपीति । उपधाह्रस्वश्चङ्परण्यपेक्षत्वाद्बहिरङ्गः । द्वित्वं तु चङ्मात्रापेक्षत्वादन्तरङ्गम् । अथाऽपि द्वित्वात्प्रागेव उपधाह्रस्व इत्यर्थः । कुत इत्यत आह — ओणेरिति । 'ओणृ अपनयने' इति धातोः ऋदित्करणम् औणिणदित्यत्र नोग्लोपी॑ति उपधाह्रस्वप्रतिषेधार्थम् । यदि तु उपधाह्रस्वात्प्रागेव अन्तरङ्गत्वाद्द्वित्वं स्यात्तदा ओण् इ अ त् इत्यत्रअजादेर्द्वितीयस्ये॑ति णीत्यस्य णिचा सह द्वित्वे सति पश्चादोकारस्य चङ्परे णौ उपधात्वाऽभावादेव ह्रस्वस्याऽप्रसक्तत्वादृदित्करणं व्यर्थं स्यात् ।द्वित्वात्प्रागेव उपधाह्रस्व॑इत्यभ्युपगमे तु ओण् इ अ त् इत्यस्यामवस्थायां प्राप्तस्य ह्रस्वस्य निषेधार्थमृदित्करणमर्थवत् । अतोबहिरङ्गोऽप्युपधाह्रस्वो द्वित्वात् प्रागेवे॑ति विज्ञायते इत्यर्थः । ननु आटिटत् आशिशदिति सिध्यत्येवेति किमनेन ज्ञापनेनेत्यत आह — मा भवानिदिधदिति । एध् इ अ त् इति स्थिते पूर्वं द्वित्वप्रवृत्तौधी॑त्यस्य द्वित्वे पश्चादेकारस्य ह्रस्वो न स्यात्, द्वित्वात्प्रागेव उपधाह्रस्वे तु इध् इ अ त् इति स्थितेधी॑त्यस्य द्वित्वे माङ्योगादाडभावे इदिधदिति इष्टं सिध्यतीत्यर्थः । ननु मा भवान् प्रेदिधदित्यत्र प्र इदिधदिति स्थिते कृतेऽपि ह्रस्वे एकदेशविकृतन्यायेन एधधातुत्वात् 'एत्येधत्यूठ्सु' इति वृद्धिः स्यादित्यत आह — एजादावेधताविति ।अवर्णादेजाद्योरेत्येधत्यो॑रिति व्याख्यातत्वादिति भावः । औन्दिददिति । उन्द् इ अ त् इति स्थितेदी॑त्यस्य द्वित्वमिति भावः । आड्डिडदिति । अड्डधातुर्दोपधः । ष्टुत्वसंपन्नो डकारः । अड्डि अ त् इति स्थिते ष्टुत्वस्याऽसिद्धत्वेन दकारात्परस्यडि॑इत्यस्य द्वित्वमिति भावः । आर्चिददिति । अर्च् इ अ त् इति स्थिते रेफात् परस्यची॑त्यस्य द्वित्वमिति भावः । उब्ज आर्जवे इति । ननु चङिब्जी॑त्यस्य द्वित्वे हलादिशेष#ए औबिब्जदिति रूपं स्यात् । औब्जिजदित्येव द्वित्वमिति भावः । तर्हि दकारः कुतो न श्रुयते इत्यत आह — भुजन्युब्जाविति । ननु द्वित्वात्प्रागन्तरङ्गत्वाद्दकारस्य बकारादेशे सति 'न न्द्रा' इति निषेधस्य कथमिह प्रवृत्तिरित्यत आह — स चेति । ननु 'द्रु गतौ' द्रावयति, चङिद्रु॑इत्यस्य द्वित्वे उत्तरखण्डस्य वृद्ध्यावादेशयोरुपधाह्रस्वेरुआवतिशृणोती॑त्यभ्यासस्य इत्त्वे अदिद्रवदिति इष्यते । तन्नोपपद्यते । 'न न्द्राः' इति दकारस्य द्वित्वनिषेधादित्यत आह — अजादेरित्येवेति । 'न न्द्राः' इत्यत्र अजादेरित्यनुवर्तत एवेत्यर्थः । 'आदिभूतादचः' इति व्याख्यातं प्राक् । ततश्च आदिभूतादचः परा नदरा द्विर्न भवन्तीति फलितम् । नेहेति । प्रकृते आदिभूतादचः परत्वाऽभावान्न दकारद्वित्वनिषेध इत्यर्थः ।अदिद्रप॑दिति पाठे द्राधातोर्णिचि पुकिद्रापी॑त्यस्माद्रूपम् । ननुलावस्थायाम॑डिति पक्षे अचः परत्वमस्त्येवेति चेन्न, 'न न्द्राः' इत्यत्रलिटि धातो॑रित्तो धातोरित्यनुवर्त्त्य धातुसंज्ञाकालिकादादेरचः परा नदरा द्विर्नेति व्याख्यानादित्याहुः ।