8-3-117 सुनोतेः स्यसनोः पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः न
सुनोतेः सकारस्य मूर्धन्योदेशो न भवति स्ये सनि च परतः। अभिसोष्यति। परिसोष्यति। अभ्यसोष्यत्। पर्यसोष्यत्। सनि किमुदाहरणम्? सुसूषति। नैतदस्ति प्रयोजनम्, अत्र <<स्तौतिण्योरेव षण्यभ्यासात्>> ८.३.६१ इति नियमाद् न भविष्यति। इदं तर्हि, अभिसुसूषति। एतदपि नास्ति, <<स्थादिष्वभ्यासेन चाभ्यासस्य>> ८.३.६४ इति नियमात् । इदं तर्हि, अभिसुसूषतेरप्रत्ययोऽभिसुसूरित्युदाहरणमिति। अत्र हि सन् षभूतो न भवतीत्यभ्यासात् प्राप्तिरस्ति। स्यसनोरिति किम् ? सुषाव॥
स्ये सनि च परे सुञः षो न स्यात् । विसोष्यति ।{$ {!1248 षिञ्!} बन्धने$} । सिनोति । विसिनोति । सिषाय । सिष्ये ।{$ {!1249 शिञ्!} निशाने$} । तालव्यादिः । शेता ।{$ {!1250 डुमिञ्!} प्रक्षेपणे$} । मीनातिमिनोति - <{SK2508}> इत्यात्वम् । ममौ । ममिथ । ममाथ । मिम्ये । माता । मीयात् । मासीष्ट । अमासीत् । अमासिष्टाम् । अमास्त ।{$ {!1251 चिञ्!} चयने$} । प्रणिचिनोति ॥
<<सुनोतेः स्यसनोः>> - सोढः । 'सोढ' इति सहेरोवत्वसंपन्नस्य षष्ठन्तम् । 'सहेः साडः सः' इत्यतः स इति षष्ठन्तमनुवर्तते ।न रपरे॑त्यतो नेति । 'मूर्धन्य' इत्यधिकृतम् । तदाह — सोढ्रूपस्येत्यादिना ।
प्रकरणे प्राप्तस्य सत्वमात्रस्य प्रतिषेधः । न्यष्टौदिति । ठुतो वृद्धिर्लुकि हलिऽ इति वृद्धिः, अभ्यस्थाद्विषोः पृतना अरातीरित्यप्युदाहरणम् ॥