स्तम्भुसिवुसहां चङि

8-3-116 स्तम्भुसिवुसहां चङि पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

स्तम्भु सिवु सह इत्येतेषां चङि परतः सकारस्य मूर्धन्यादेशो न भवति। <<स्तन्भेः>> ८.३.६७ इति <<परिनिविभ्यः०>> ८.३.७० इति च प्राप्तो मूर्धन्यः प्रतिषिध्यते। स्तम्भु — पर्यतस्तम्भत्। अभ्यतस्तम्भत्। सिवु — पर्यसीषिवत्। न्यसीषिवत्। सह — पर्यसीषहत्। व्यसीषहत्॥ स्तम्भुसिवुसहां चङि उपसर्गादिति वक्तव्यम्॥ उपसर्गाद् या प्राप्तिस्तस्या एव प्रतिषेधो यथा स्यात्, अभ्यासाद् या प्राप्तिस्तस्या मा भूदिति। तथा चैवोदाहृतम्॥

Siddhanta Kaumudi

Up

उपसर्गस्थान्निममित्तादेषां सस्य षो न स्याच्चङि । अवातस्तम्भत् । पर्यसीषिवत् । न्यसीषहत् । आटिटत् । आशिशत् । बहिरङ्गोऽप्युपधाह्रस्वोऽद्वित्वात्प्रागेव । ओणेर्ऋदित्करणाल्लिङ्गात् । मा भवानिदिधित् । एजादावेधतौ विधानान्नेह वृद्धिः । मा भवान्प्रेदिधत् । न न्द्राः - <{SK2446}> इति नदराणां न द्वित्वम् । औन्दिदत् । आड्डिडत् । आर्चिचत् । उब्ज आर्जवे । उपदेशे दकारोपधः । भुजन्युब्जौ पाण्युपतापयोः <{SK2877}> इति सूत्रे निपातनाद्दस्य वः । स चान्तरङ्गोऽपि द्वित्वविषये न न्द्राः <{SK2446}> इति निषेधाज्जिशब्दस्य द्वित्वे कृते प्रवर्तते न तु ततः प्राक् । दकारोच्चारणसामर्थ्यात् । औब्जिजत् । अजादेरित्येव । नेह । अदिद्रपत् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

लिटि द्विर्वचने कृते द्वौ सकारौ भवतः, तत्र सदेः'स्थादिष्वभ्यासेन च' इति वचनात्'सदिरप्रतेः' इति षत्वप्रसङ्गः, स्वञ्चेरपि ठुपसर्गात्सुनोतिऽ इत्यादिना । परिषस्वज इति । कथं पुनरत्र नलोपः, यावता संयोगान्तत्वान्नात्र लिटः कित्वमस्ति ? अत आह - स्वञ्जेरिति । एतच्च ठिन्धिभवतिभ्यां चऽ इत्यत्र व्याख्यातम्, स्वञ्जिग्रहणञ्च वार्तिके दर्शनात्सूत्रे प्रक्षिप्तम्, यथाह -'सदो लिटि प्रतिषेधे स्वञ्चेरुपसंख्यानम्' इति ॥