8-3-115 सोढः पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः न
index: 8.3.115 sutra: सोढः
सहिरयं सोधभूतो गृह्यते। तस्य सकारस्य मूर्धन्यादेशो न भवति। परिषोढः। परिसोढुम्। परिसोढव्यम्। सोढभूतग्रहणं किम्? परिषहते।
index: 8.3.115 sutra: सोढः
सोढ्ररूपस्य सहेः सस्य षत्वं न स्यात् । परिसोढा ॥
index: 8.3.115 sutra: सोढः
सोढः - सेधतेः । न षत्वमिति ।न रपरे॑त्यतो नेत्यनुवृत्तेरिति भावः । गङ्गां विसेधतीति । गच्छतीत्यर्थः । इहउपसर्गात्सुनोती॑ति षत्वं न भवति । अनन्तरस्येति न्यायेन उपसर्गात्सुनोतीत्यस्यैवायं निषेधः,न त्वादेशप्रत्ययोरित्यस्यापि । तेन सिषेधेत्यादौ आदेशप्रत्ययोरिति षत्वं भवत्येव । षिधू इति । ननु वाक्यसङ्घविशेषात्मकस्य शास्त्रस्य अक्रियारूपतवात्कथं धात्वर्थत्वमित्यत आह -शास्त्रं शासनमिति । माङ्गल्यं तु — शुभकर्म । षिध गत्यामितिवदस्यापि रूपाणि ।
index: 8.3.115 sutra: सोढः
अत्रेत्यादि । इतिकरणो हेतौ, यस्मात् स्तौतिण्योरेवेति नियमादभ्यासादप्राप्तिः, रथादिष्वेवाभ्यासस्येति नियमादुपसर्गादप्यप्राप्तिः, तस्मादभिसुसूरित्युदाहरन्ति । अथ वा कथं षत्वप्रसङ्गः ? अत आह - अत्र हीति । यथा चात्र सन्ष इत्यत्रोक्तम् । अभ्यासात्प्राप्तिमिति । अभ्यासग्रहणमुपसर्गात्प्राप्तेरसम्भवादभ्यासेन व्यवहितान्न धातुसकारस्य प्रसङ्गः, नाप्यभ्याससकारस्य, स्थादिनियमेन व्यावतितत्वात् । एवं चात्राभिग्रहणमतन्त्रम्, सुसूरित्येवोदाहर्तव्यम् ॥