प्रतिस्तब्धनिस्तब्धौ च

8-3-114 प्रतिस्तब्धनिस्तब्धौ च पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः

Kashika

Up

index: 8.3.114 sutra: प्रतिस्तब्धनिस्तब्धौ च


प्रतिस्तब्ध निस्तब्ध इत्येतौ मूर्धन्यप्रतिषेधाय निपात्येते। स्तन्भेः 8.3.67 इति प्राप्तं षत्वं प्रतिषिध्यते। प्रतिस्तब्धः। निस्तब्धः।

Siddhanta Kaumudi

Up

index: 8.3.114 sutra: प्रतिस्तब्धनिस्तब्धौ च


अत्र षत्वं न स्यात् ॥

Padamanjari

Up

index: 8.3.114 sutra: प्रतिस्तब्धनिस्तब्धौ च


अत्राद्यस्य'स्तम्भेः' इति प्राप्तिः, इतरयोस्तु'परिनिविभ्यः सेवसित' इति । अभ्यतस्तम्भदिति ।'प्राक्सितादड्व्यवाये' पिऽ इति'स्थादिष्वभ्यासेन च' इति प्राप्तिः । पर्यसीषिवदिति । अत्रापि'सिवादीनां वाड्व्यवाये' पिऽ इति प्राप्तिः ॥ उपसर्गादिति वक्तव्यमिति । किमर्थम् ? इत्याह - उपसर्गाद्या प्राप्तिरिति ॥