8-3-112 सिचः यङि पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः न
सिचः सकारस्य यङि परतो मूर्धन्यादेशो न भवति। सेसिच्यते। अभिसेसिच्यते। <<उपसर्गात्०>> ८.३.६५ इति या प्राप्तिः सा पदादिलक्षणमेव प्रतिषेधं बाधते, न सिचो यङीति। तस्मादयं प्रतिषेधः सर्वत्र भवति। यङीति किम् ? अभिषिषिक्षति॥
सिचः सस्य षो न स्याद्यङि । निसेसिच्यते ॥
'स्तन्भेः' इति प्राप्तिः प्रति षिध्यते ॥