न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम्

8-3-110 न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

रेफपरस्य सकारस्य सृपि सृजि स्पृशि स्पृहि सवनादीनां च मूर्धन्यो न भवति। रपर — वि॒स्रं॑सि॒कायाः॒ का॑ण्डा॒भ्यां जुहोति (मै०सं० २.६.१) । विस्रब्धः कथयति। सृपि — पु॒रा क्रू॒रस्य॑ वि॒सृपः॑ (मा०सं० १.२८)। सृजि — वाचो विसर्जनात्। स्पृशि — दि॑वि॒स्पृश॑म् (ऋ० १.१४२.८)। स्पृहि — निस्पृहं कथयति। सवनादीनाम् — सवनेसवने। सूतेसूते। सामेसामे। सवनमुखेसवनमुखे। किं स्यतीति किंसंकिंसम्। अनुसवनमनुसवनम्। गो॒सनिं॒ (शौ०सं० ३.२०.१०) गोसनिम्। अश्वसनिमश्वसनिम्। <<पूर्वपदात्>> ८.३.१०४ इति प्राप्तेः प्रतिषेधः। अश्वसनिग्रहणमनिणोऽपि षत्वमस्तीति ज्ञापनार्थम्। तेन जलाषाहमश्वषाहमित्येतत् सिद्धं भवति। क्वचिदेवं गणपाठः — सवनेसवने। अनुसवनेऽनुसवने। संज्ञायां बृहस्पतिसवः। शकुनिसवनम्। सोमेसोमे। सूतेसूते। संवत्सरेसंवत्सरे। किंसंकिंसम्। बिसंबिसम्। मसुलंमुसलम्। गोसनिमश्वसनिम्। सवनादिः॥

Siddhanta Kaumudi

Up

रेफपरस्य सकारस्य सृप्यादीनां च मूर्धन्यो न स्यात् । पूर्वपदात् <{SK3643}> इति प्राप्तः प्रतिषिध्यत इति वृत्तिर्भूयोऽभिप्राया । तेन शासिवसि- <{SK2410}> इति प्राप्तमपि न । उस्रो रश्मिः । उस्रा गौः । वाश्रो दिवसः । अवश्रं मन्दिरम् । शीरोऽजगरः । हस्रो मूर्खः । सिध्रः साधुः । शुभ्रम् । बाहुलकात् मुसे रक् । मुस्रम् उदश्रु ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

परिसेसिच्यत इति । अत्राभ्याससकारस्य ठुपसर्गात्सुनोतिऽ इत्यादिना प्राप्तिः, धातुसकारस्य त्वादेशसकारत्वात्'स्थादिष्वभ्यासेन च' इत्येतस्माच्च । ननु चोपसर्गात्प्रतिषेधविषये षत्वमारभ्यते, तद्यथैव पदादिप्रतिषेधं बाधते, एवं'सिचो यङ्' इत्येतिमपि बाधेत ? अत आह - उपसर्गाद्या प्राप्तिरिति । येन नाप्राप्ते तस्य बाधनं भवति, नाप्राप्ते च पदादिलक्षणे प्रतिषेधे उपसर्गात् षत्वमारभ्यते,'सिचो यङ्' इत्येतिस्मिंस्तु प्राप्ते चाप्राप्ते च । अथ वा -'पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते न परान्' इति । अनेनैतदपि निरस्तम् -'स्थादिष्वभ्यासेन च' इत्यनेन यथाभिषिषिक्षतीत्यत्र स्तौतिण्योरेवेति नियमं बाधित्वा षत्वं भवति, तथैनमपि प्रतिषेधं बाधित्वा धातुसकारस्य प्रसङ्ग इति ॥