सहेः पृतनर्ताभ्यां च

8-3-109 सहेः पृतनर्ताभ्यां च पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः छन्दसि पूर्वपदात्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पृतना ऋत इत्येताभ्यामुत्तरस्य सहिसकारस्य मूर्धन्यादेशो भवति। पृतना॒षाह॑म् (ऋ० ६.७२.५)। ऋताषाहम्। केचित् सहेः इति योगविभागं कुर्वन्ति। ऋ॑ती॒षह॑म् (ऋ० ६.१४.४) इत्यत्रापि यथा स्यात्। ऋतिशब्दस्य पूर्वपदस्य <<संहितायाम्>> ६.३.११६ एतद् दीर्घत्वम्, षत्वं च। अवग्रहे तु ऋति सहम् इत्येव भवति। चकारोऽनुक्तसमुच्चयार्थः। तेन ऋ॑ती॒षह॑म् (ऋ० ६.१४.४) इति सिद्धम्॥

Siddhanta Kaumudi

Up

पृतनाषाहम् । ऋताषाहम् । चात् ऋतीषाहम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

आदिग्रहणं शक्यमकर्तुम्, पदादिति पञ्चमीनिर्द्देशः कर्तव्यः - पदात्परस्य सकारस्य नेति । इहापि तर्हि न प्राप्नोति -अग्निषु, वायुषु, त्वक्षु ? सातिप्रतिषेधो ज्ञापयति - स्वादौ यत्पदं न तस्मात्प्रतिषेध इति । तत्रायमप्यर्थः - दधिसिक्, मधुसिगित्यादौ प्रतिषेधः सिद्धो भवति, न ह्ययं सकारः पदादिः । गतिकारकोपपदानां कृद्धिः सह समासवचनं प्राक् सुबुत्पतेःऽ इति वचनात् पदात्परस्तु भवति, तत्रापि पूर्वपदस्य सुबन्तत्वात् । बहुचस्तु प्रतिषेधः । बहुवस्तु परस्य प्रतिषेधो वक्तव्यः - बहुसेक्ता, न ह्यत्र पदात्परः सकारः ॥