8-3-108 सनोतेः अनः पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः छन्दसि पूर्वपदात्
सनोतेरनकारान्तस्य सकारस्य मूर्धन्यादेशो भवति। गो॒षाः (ऋ० ९.२.१०)। नृ॒षाः (ऋ० ९.२.१०)। अन इति किम्? गो॒सनिं॒ वाच॑मुदेय॒म् (शौ०सं० ३.२०.१०)। पूर्वपदादित्येव सिद्धे नियमार्थमिदम्। अत्र केचित् सवनादिपाठाद् गोसनिर्नियमस्य फलं न भवतीति सिसानयिषतीति प्रत्युदाहरन्ति। सिसनिषतेरप्रत्ययः, सिसनीरित्यपरे॥
गोषा इन्दो नृषा असि (गो॒षा इ॑न्दो नृ॒षा अ॑सि) । अनः किम् । गोसनिः ॥
विस्रंसिकाया इति । रोगाख्यायाम्ऽ इति ण्वुल् । विस्रब्धमिति ।'सृम्भु विश्वासे' क्तः,'यस्य विभाषा' इतीट्प्रतिषेधः, ठनिदिताम्ऽ इति नलोपः । विसृप इति ।'सृपितृदोः कसुन्' । सवनेसवन इत्यादौ वीप्सायां द्विर्वचनम् । किंस इत्यत्र ठयोगवाहानामट्सुणत्वं शर्षु जश्भावषत्वेऽ इति वचनाच्छर्व्यवाये इति षत्वप्रसङ्गः । यथा तु शषूपदेशो न कर्तव्यस्तथा'हयवरट्' इत्यत्रोक्तम् । अश्वसनिग्रहणमनर्थकमनिणन्तत्वात् ? अत आह - अश्वसनिग्रहणमिति । ज्ञापनस्य प्रयोजनमाह - जलाषाहमिति ॥