पूर्वपदात्

8-3-106 पूर्वपदात् पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः एकेषाम् छन्दसि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

छन्दसीति वर्तते, एकेषामिति च। पूर्वपदस्थाद् निमित्तादुत्तरस्य सकारस्य मूर्धन्यादेशो भवति छन्दसि विषय एकेषामाचार्याणां मतेन। द्वि॑ष॒न्धिः॒ (मै०सं० ३.८.२), द्विसन्धिः। त्रि॑ष॒न्धिः॒ (मै०सं० ३.८.२), त्रिसन्धिः। मधुष्ठानम् , मधुस्थानम्। द्विषा॑हस्रं चिन्वीत (तै०सं० ५.६.८.२), द्विसाहस्रं चिन्वीत। असमासेऽपि यत् पूर्वपदं तदपीह गृह्यते। त्रिःषमृद्धत्वाय, त्रिःसमृद्धत्वाय॥

Siddhanta Kaumudi

Up

पूर्वपदस्थान्निमित्तात्परस्य सस्य षो वा । यदिन्द्राग्नी दिविष्ठः (यदि॑न्द्राग्नी दि॒विष्ठः) । युवं हि स्थः स्वर्पती (यु॒वं हि स्थः स्व॑र्पती) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

गोषा इति ।'जनसनखनक्रमगमो विट्' ,'विड्वनोरनुनासिकस्यात्' । क्वचित्विदमपि वृतावेवास्ति । गोसनिमिति ।'च्छन्दसि वनसनरक्षिमथाम्' इतीन्प्रत्यः । सिसानयिषतीति । यद्यप्यण्यन्तः सूत्र उपातः, तथाप्यण्यन्तस्य प्रतिषेधवचने प्रयोजनं नास्तीति कृत्वा ण्यर्थो विज्ञास्यते । इह तु सिसनीयतीति स्तौतिण्योरेव षणीत्येतस्मान्नियमादप्रसङ्गः षत्वस्य । सिसनीरिति । क्विप्यतो लोपः, ततः सुः, हल्ङ्यादिलोपः, सनः सकारस्य षत्वं प्राप्नोति रुत्वं च, तत्र षत्वस्यासिद्धत्वाद्रुत्वम्, र्ठ्वोरुपधाया दीर्घःऽ इति दीर्घत्वम् । अत्र सन् षत्वभूतो न भवतीति स्तौतिण्योरेवेत्यस्य नियमस्यायमविषय इति षत्वं प्रसक्तम्, अस्मान्नियमान्न भवति । एतस्मिंश्च प्रयोजने सति सामर्थ्याभावाद् ण्यन्तस्य नियमाभावात् सिषाणयिवतीति षत्वं भवत्येव ॥