8-3-105 स्तुतस्तोमयोः छन्दसि पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः एकेषाम्
एकेषामिति वर्तते। स्तुत स्तोम इत्येतयोः सकारस्य छन्दसि विषये मूर्धन्यादेशो भवत्येकेषामाचार्याणां मतेन। त्रिभिष्टुतस्य, त्रिभिस्तुतस्य। गोष्टो॑मं (तै० सं० ७.४.११.१) षोडशिनम्, गोस्तोमं षोडशिनम् (तु० — आ० श्रौ० ९.५.२)। पूर्वपदादित्येव सिद्धे प्रपञ्चार्थमिदम्॥
नृभिष्टुतस्य । नृभिःस्तुतस्य । गोष्टोमम् । गोस्तोमम् । पूर्वपदादित्येव सिद्धे प्रपञ्चार्थमिदम् ॥
अभीषुण इति । ठिकः सुञिःऽ इति दीर्घत्वम्,'नश्च धातुस्थोरुषुभ्यः' इति णत्वम् । क्वचितु वृतावेवैतत्पठ।ल्ते ॥