यजुष्येकेषाम्

8-3-104 यजुषि एकेषाम् पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः तादौ युष्मत्तत्ततक्षुषु

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

यजुषि विषये युष्मत्तत्ततक्षुःषु परत एकेषामाचार्याणां मतेन सकारस्य मूर्धन्यादेशो भवति। अ॒र्चिर्भि॒ष्ट्वम् (मा०सं० १२.३२), अर्चिर्भिस्त्वम्। अग्निष्टेऽग्रम्, अ॒ग्निस्तेऽग्॑रम् (तै०सं० ३.५.६.२)। अ॒ग्निष्टत् (तै०सं० १.१.१४.५), अ॒ग्निस्तत् (तै०सं० ३.२.५.४)। अर्चिर्भिष्टतक्षुः, अर्चिर्भिस्ततक्षुः॥

Siddhanta Kaumudi

Up

युष्मत्तत्ततक्षुषु परतः सस्य मूर्धन्यो वा । अर्चिभिष्ट्वम् । अग्निष्टे अग्रम् । अर्चिभिष्टतक्षुः । पक्षे अर्चिभिस्त्वमित्यादि ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

असमासेऽपीति । एतच्च सवनादिषु'सवनेसवने' इत्यादीनां पाठादेवावसीयते ॥