युष्मत्तत्ततक्षुःष्वन्तःपादम्

8-3-103 युष्मत्तत्ततक्षुषु अन्तःपादम् पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः तादौ

Kashika

Up

index: 8.3.103 sutra: युष्मत्तत्ततक्षुःष्वन्तःपादम्


युष्मत् तत् ततक्षुसित्येतेषु तकारादिषु परतः सकारस्य मूर्धन्यादेशो भवति, स चेत् सकारोऽन्तःपादं भवति। युष्मदादेशाः त्वम्, त्वाम्, ते, तव। अग्निष्ट्वं नामासीत्। त्वा अग्निष्ट्वा वर्धयामसि। ते अग्निष्टे विश्वमानय। तव अप्स्वग्ने सधिष्टव। तत् अग्निष्टद् विश्वमापृणाति। ततक्षुस् द्यावापृथिवी निष्टतक्षुः। अन्तःपादम् इति किम्? यन्म आत्मनो मिन्दाभूदग्निस्तत्पुनराहार्जतवेदा विच।

Siddhanta Kaumudi

Up

index: 8.3.103 sutra: युष्मत्तत्ततक्षुःष्वन्तःपादम्


पादमध्यस्थस्य सस्य मूर्धन्यः स्यात्तकारादिष्वेषु परेषु । युष्मदादेशाः त्वंत्वातेतवाः । त्रिभिष्ट्वं देव सवितः (त्रि॒भिष्ट्वं दे॑व सवितः) । तेभिष्ट्वा (तेभि॑ष्ट्वा) । आभिष्टे (आभिष्टे॑) । अप्स्वग्ने सधिष्टव (अ॒प्स्व॑ग्ने सधि॒ष्टव॑) । अग्निष्टद्विश्वम् (अ॒ग्निष्टद्विश्व॑म्) । द्यावा पृथिवी निष्टतक्षुः (द्यावा॑ पृथि॒वी नि॑ष्टत॒क्षुः) । अन्तः पादं किम् । तदग्निस्तदर्यमा (तद॒ग्निस्तद॑र्य॒मा) । यन्म आत्मनो मिन्दाभूदग्निस्तत्पनराहार्जातवेदा विचर्षणिः (यन्म॑ आ॒त्मनो॑ मि॒न्दाभू॑द॒ग्निस्तत्पुन॒राहा॑र्जा॒तवे॑दा विच॑र्षणिः) । अत्राग्निरिति पूर्वपादस्यान्तो न तु मध्यः ।

Balamanorama

Up

index: 8.3.103 sutra: युष्मत्तत्ततक्षुःष्वन्तःपादम्


युष्मत्तत्ततक्षुःष्वन्तःपादम् - ह्रस्वात्तादौ ।इण्को॑रित्यत इण्ग्रहणमनुवर्तते । 'सहेः साडः स' इत्यतः स इति षष्ठन्तमनुवर्तते ।अपदान्तस्य मूर्धन्यः॑ इति च । तदाह — ह्रस्वादिण इति । निष्ट इति त्यपि सस्य षत्वे तकारस्य ष्टुत्वेन टः ।अरण्याण्ण्य इति । 'वक्तव्य' इति शेषः । आरण्याः सुमनस इति ।स्तिरयः सुमनसः पुष्प॑मित्यमरः । अरण्ये भवा इत्यर्थे णप्रत्यये टापि 'आरण्या' इति रूपम् । अणि तु ङीप् स्यादिति भावः । दूरादेत्य इति । 'वक्तव्य' इति शेषः । दूरेत्य इति । दूरादागतः, दूरे भव इति वाऽर्थः । दूरादित्यव्ययादेत्यप्रत्ययेऽव्ययानां भमात्रे इति टिलोपः ।उत्तरादाहञिति । 'वाच्य' इति शेषः । औत्तराह इति । उत्तरस्मादागतः, उत्तरस्मिन् भव इति वाऽर्थः । औत्तर इति त्वसाधु ।

Padamanjari

Up

index: 8.3.103 sutra: युष्मत्तत्ततक्षुःष्वन्तःपादम्


पूर्वपदादित्येव सिद्ध इति । पूर्वपदमिति सामान्येन तत्राश्रीयते, न तु समासावयव एवेति वाक्येऽपि तेनैव सिद्धं षत्वमिति भावः । ततश्च स्तुतस्तोमग्रहणं प्रपञ्चार्थम् । च्छन्दोग्रहणं तूतरार्थं कर्तव्यमेव ॥