निसस्तपतावनासेवने

8-3-102 निसः तपतौ अनासेवने पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः तादौ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

निसः सकारस्य मूर्धन्यादेशो भवति तपतौ परतोऽनासेवनेऽर्थे। आसेवनं पुनःपुनः करणम्। निष्टपति सुवर्णम्। सकृदग्निं स्पर्शयतीत्यर्थः। अनासेवन इति किम्? निस्तपति सुवर्णं सुवर्णकारः। पुनःपुनरग्निं स्पर्शयतीत्यर्थः। निष्॑टप्तं॒ रक्षो॒ निष्ट॑प्ता॒ अरा॑तयः (मा०सं० १.७) इत्यत्र सदप्यासेवनं न विवक्ष्यते, छान्दसो वा वर्णविकारः॥

Siddhanta Kaumudi

Up

षः स्यात् । आसेवनं पौनः पुन्यं ततोऽस्यस्मिन्विषये । निष्टपति ।{$ {!986 त्यज!} हानौ$} । तत्यजिथ । तस्यक्थ । त्यक्ता । अत्याक्षीत् ।{$ {!987 षञ्ज!} सङ्गे$} । दंशसञ्जस्वञ्जां शपि <{SK2396}> इति नलोपः । सजति । सङ्क्ता ।{$ {!988 दृशिर्!} प्रेक्षणे$} । पश्यति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<निसस्तपतावनासेवने>> - नक्षत्राद्वा । स्पष्टम् ।

Padamanjari

Up