8-2-99 प्रतिश्रवणे च पदस्य पूर्वत्र असिद्धम्
प्रतिश्रवणमभ्युपगमः, प्रतिज्ञानम्, श्रवणाभिमुख्यं च। तत्राविशेषात् सर्वस्य ग्रहणम्। प्रतिश्रवणे यद् वाक्यं वर्तते तस्य टेः प्लुतो भवति। देवदत्त भोः, किमा॒त्थ३। गां मे देहि भोः, अहं ते द॒दा॒मि३। नित्यः शब्दो भवितुम॒र्ह॒ति३॥
वाक्यस्य टे प्लुतोऽभ्युपगमे प्रतिज्ञाने श्रवणाभिमुख्ये च । गां मे देहि भोः । हन्त ते ददामि3 । नित्यः शब्दो भवितुमर्हति 3 । दत्त किमात्थ3 ॥
प्रतिश्रवणे च॥ प्रतिश्रवणमभ्युपगम इति। अङ्गीकारः। प्रतिज्ञानमिति। प्राथितस्य देयत्वेन संवादः। अत्रोभयत्रापि गतिसमासः, अर्थध्वयेऽपि प्रतिपूर्वः शृणोतिः प्रसिद्धः। श्रवणाभिमुख्यं चेति। अत्र'लक्षणेनाभिप्रती आभिमुख्ये' इत्यव्ययीभावः। उदाहरणानि तु व्युत्क्रमेण दतानि। किमात्थ6 इति। किं ब्रूषे - इत्येतत्पृच्छति। अत्र च श्रवणाभिमुख्यं गम्यते। हन्त ते ददामि 6इति। अत्रि प्रार्थितस्य संवादो गम्यते। देवदत भोरित्यामन्त्रितम्। स यदर्थमामन्त्रितस्तच्छवणार्थं किमात्थ इति। गां मे देहि भोः, नित्यः शब्दो भनितुमर्हति, तस्मिन् तृतीये तूदाहरणे स्वाभ्युपगमो गम्यते॥