8-2-98 पूर्वं तु भाषायाम् पदस्य पूर्वत्र असिद्धम् वाक्यस्य टेः विचार्यमाणानाम्
भाषायां विषये विचार्यमाणानां पूर्वमेव प्लवते। अहिर्नु३ रज्जुर्नु। लोष्टो नु३ कपोतो नु। प्रयोगापेक्षं पूर्वत्वम्। इह भाषाग्रहणात् पूर्वयोगश्छन्दसि विज्ञायते॥
विचार्यमाणानां पूर्वमेव प्लवते । अहिर्नु3 रज्जुर्नु । प्रयोगापेक्षं पूर्वत्वम् । भाषाग्रहणात्पूर्वयोगश्छन्दसीति ज्ञायते ॥
पूर्वं तु भाषायाम्॥ पूर्वेणैव सिद्धे नियमार्थमेतत्, तुशब्दस्त्विष्टतोऽवधारणार्थः, यर्थेवं विज्ञायेत - पूर्वमेव भाषायामिति, मैवं विज्ञायि -पूर्वं भाषायामेवेति। पूर्वत्वं च प्रयोगापेक्षम्। उदाहरणे नुशब्दो वितर्केअ। लोष्टःउमृत्पिण्डः॥