8-2-100 अनुदात्तं प्रश्नान्ताभिपूजितयोः पदस्य पूर्वत्र असिद्धम्
अनुदात्तः प्लुतो भवति प्रश्नान्ते, अभिपूजिते च। अगम॑३ः पूर्वा॑३न् ग्रामा॑३न् अग्निभूता॒३ इ, पटा॒३उ। अग्निभूते, पटो इत्येतयोः प्रश्नान्ते वर्तमानयोरनुदात्तः प्लुतो भवति। अगम इत्येवमादीनां तु <<अनन्त्यस्यापि प्रश्नाख्यानयोः>>८.२.१०५ इति स्वरितः प्लुतो भवति। अभिपूजिते — शोभनः खल्वसि माणवक॒३॥
अनुदात्तः प्लुतः स्यात् । दूराद्धूतादिषु सिद्धस्य प्लुतस्यानुदात्तत्वमात्रमनेन विधीयते । अग्निभूत 3 इ । पट 3 उ । अग्निभूते पटो एतयोः प्रश्नान्ते टेरनुदात्तः प्लुतः । शोभनः खल्वसि माणवक3 ॥
अनुदातं प्रश्नान्तभिपूजितयोः॥ प्रश्नवाक्ये यच्चरमं प्रयुज्यते स प्रश्नान्तः। क्वचित्पठ।ल्ते - नानेन प्लुतो विधीयते, किन्तु दूराद्धूतादिषु विहितस्य ठनन्त्यस्यापि प्रश्नाख्यानयोःऽ इति स्वरितप्लुतस्यानुदातत्वं गुणमात्रं विधीयत इति। तत्रैषा वचनव्यक्तिः - प्रश्नान्ते अभिपूजिते च यः प्लुतः सोऽनुदातो भवतीति। तत्राभिपूजिते'दूराद्धूते च' इति प्लुत इति। इतरत्र तु ठनन्त्यस्यापि प्रश्नाख्यानयोःऽ इति। अगमः पूर्वान् ग्रामानित्येषां स्वरितः प्लुतः। अग्निभूते, पटो - इत्यन्यतरेण वाक्यपरिसमाप्तिर्भवति। तत्र यदा येन वाक्यपरिसमाप्तिस्तदा तस्यानेनानुदातः प्लुतः, स च पूर्वभागस्य; उतरभागस्य तूदाताविदुतौ भवतः॥