8-2-97 विचार्यमाणानाम् पदस्य पूर्वत्र असिद्धम् वाक्यस्य टेः
प्रमाणेन वस्तुपरीक्षणं विचारः, तस्य विषये विचार्यमाणानां वाक्यानां टेः प्लुतो भवति। हो॒त॒व्यं॑ दीक्षि॒तस्य॑ गृ॒हा३इ (तै०सं० ६.१.४.५)। होतव्यं न होतव्यमिति विचार्यते। तिष्ठेद्यूपा३इ। अनुप्रहरेद्यूपा३इ। यूपे तिष्ठेत्, यूपेऽनुप्रहरेदिति विचार्यते॥
वाक्यानां टेः प्लुतः । होतव्यं दीक्षितस्य गृहा3इ । न होतव्य3मिति । होतव्यं न होतव्यमिति विचार्यते । प्रमाणैर्वस्तुतत्त्वपरीक्षणं विचारः ॥
कोटिद्वयस्य विज्ञानं विचार इति कथ्यते । विचार्यमाणस्तज्ज्ञानविषयीभूत उच्यते ॥ इह तु विचार्यमाणार्थविषयत्वाद्वाक्यानि विचार्यमाणानि । गृह3इ इति । गृहेशब्दस्य पूर्ववत् प्लुतविकारः । अनुप्रहरेदिति । अनुप्रहारः उ शायनम्, व्यत्ययेन कर्मणि कर्तृप्रत्ययः, शाययेतेत्यर्थः । अथ वानुप्रहरेदित्यत्र यूपं यजमान इत्यस्याध्याहारः, किं यूपं यजमानः शाययेदिति विचारार्थः ॥