अङ्गयुक्तं तिङ् आकाङ्क्षम्

8-2-96 अङ्गयुक्तं तिङ् आकाङ्क्षम् पदस्य पूर्वत्र असिद्धम् वाक्यस्य टेः भर्त्सने

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अङ्ग इत्यनेन युक्तं तिङन्तमाकाङ्क्षं भर्त्सने प्लवते। अङ्ग कू॒ज३, अङ्ग व्या॒ह॒र३ इदानीं ज्ञास्यसि जाल्म। तिङिति किम् ? अङ्ग देवदत्त, मिथ्या वदसि। आकाङ्क्षमिति किम्? अङ्ग पच। नैतदपरमाकाङ्क्षति। भर्त्सन इत्येव — अङ्गाधीष्व, ओदनं ते दास्यामि॥

Siddhanta Kaumudi

Up

अङ्गेत्यनेन युक्तं तिङन्तं प्लवते । अङ्ग कूज3 इदानीं ज्ञास्यसिजाल्म । तिङ् किम् । अङ्ग देवदत्त मिथ्या वदसि । आकाङ्क्षं किम् । अङ्ग पच । नैतदपरमाकाङ्क्षति । भर्त्सन इत्येव । अङ्गाधीष्व भक्तं तव दास्यामि ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

आकाङ्क्षतीत्याकाङ्क्षम्, पचाद्यच् । इदानीं ज्ञास्यसि जाल्मेत्येष द्वयोरप्युदाहरणयोः शेषः । कूजनफलं व्याहारफलं वास्मिन्नेव क्षणे ज्ञास्यसीत्यर्थः । अङ्गशब्दोऽमर्षे, प्रत्युदाहरणे त्वनुनये । अङ्ग देवदतेत्येतावदेकं वाक्यम् । एतच्व वाक्यं मिथ्या वदसीत्येतदपेक्षते ॥