8-2-94 निगृह्य अनुयोगे च पदस्य पूर्वत्र असिद्धम् वाक्यस्य टेः विभाषा
स्वमतात् प्रच्यावनं निग्रहः। अनुयोगस्तस्य मतस्याविष्करणम्। तत्र निगृह्यानुयोगे यद् वाक्यं वर्तते तस्य टेः प्लुतो भवति विभाषा। अनित्यः शब्द इति केनचित् प्रतिज्ञातम्, तमुपालिप्सुरुपपत्तिभिर्निगृह्य साभ्यसूयमनुयुङ्क्ते — अनित्यः शब्द इत्यात्थ३, अनित्यः शब्द इत्यात्थ। अद्य श्राद्धमित्यात्थ३, अद्य श्राद्धमित्यात्थ। अद्यामावास्येत्यात्थ३, अद्यामावास्येत्यात्थ। अद्यामावास्येत्येवं वादी युक्त्या प्रच्याव्य स्वमतादेवमनुयुज्यते॥
अत्र यद्वाक्यं तस्य टेः प्लुतो वा । अद्यामावास्येत्यात्थ3 । अमावास्येत्येवंवादिनं युक्त्या स्वमतात्प्रच्याव्य एवमनुयुज्यते ॥
निगृह्यएति । ल्यबन्तमेतत् । स्वमतादिति । स्वपक्षात् । प्रच्यावनमुअपनयः । तस्यैवेति । यस्मादसौ प्रच्यावितस्तस्यैव स्वपक्षस्याविष्करणमुशब्देन प्रकाशनम् -एवं किल त्व निरुपपतिकमात्थेति । सूत्रार्थमुदाहरणे दर्शयन्नेवोदाहरति - अनित्यः शब्द इति केनचित्प्रतिज्ञातमिति । तमेवं वादिनमुपालिप्सुरुपालब्धुकामो निगृह्य स्वमतात्प्रच्याव्य साभ्यसूयं सामर्षमनुयुङ्क्ते आविष्कृतस्वमतकरोति । क्वचित्वयं ग्रन्थो न पठ।ल्ते, अन्ते तु पठ।ल्ते । अद्यामावास्या इत्येवंवादी प्रच्याव्य स्वमतादेवमनुयुज्यत इति ॥