विभाषा पृष्टप्रतिवचने हेः

8-2-93 विभाषा पृष्टप्रतिवचने हेः पदस्य पूर्वत्र असिद्धम् वाक्यस्य टेः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पृष्टप्रतिवचने विभाषा हेः प्लुतो भवति। अकार्षीः कटं देवदत्त? अकार्षं हि३, अकार्षं हि। अलावीः केदारं देवदत्त ? अलाविषं हि३, अलाविषं हि। पृष्टप्रतिवचन इति किम् ? कटं करिष्यति हि। हेरिति किम् ? करोमि ननु॥

Siddhanta Kaumudi

Up

प्लुतः अकार्षीः कटम् । अकार्षं हि3 । अकार्षं हि । पृष्टेति किम् कटं करिष्यति हि । हेः किम् । कटं करोति ननु ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

प्रतिवचनशब्दोऽयं विरुद्धेऽपि शब्दे वर्तते, प्रतिशब्दस्य विरोधे प्रसिद्धेः - प्रतिमल्लः, प्रतिकुञ्जर इति; वचनं वचनं प्रतीति प्रतिवचनमिति वीप्सायामव्ययीभावेऽप्यस्ति; समाधानेऽप्यस्ति - अनेनाभिहितस्य मया प्रतिवचनं विहितमिति; पृष्टप्रतिवचनेऽपि वर्तते; तत्रासति पृष्टग्रहणे विवक्षितं प्रतिवचनं न गम्येत । उदाहणे हिशब्दोऽवधारणे ॥