8-2-92 अग्नीत्प्रेषणे परस्य च पदस्य पूर्वत्र असिद्धम् वाक्यस्य टेः यज्ञकर्मणि आदेः
अग्नीधः प्रेषणमग्नीत्प्रेषणम्। तत्रादेः प्लुतो भवति परस्य च। आ३ श्रा॑३व॒य (तै०सं० १.६.११.२)। ओ३श्रा३व॑य। अत्रैवायं प्लुत इष्यते। तेनेह न भवति — अग्नी॑द॒ग्नीन् विह॑र ब॒र्हिः स्तृ॑णाहि (तै०सं० ६.३.१.२) इति। तदर्थं केचिद् वक्ष्यमाणं विभाषेत्यभिसंबध्नन्ति। सा च व्यवस्थितविभाषेति। अपर आह — <<सर्व एव प्लुतः साहसमनिच्छता विभाषा विज्ञेयः>>(महाभाष्य ३.४२०) इति। इह तु उद्धर३उद्धर, अभिहर३अभिहर इति छान्दसः प्लुतव्यत्ययः। यज्ञकर्मणीत्येव — ओ श्रावय॥
अग्नीधः प्रेषणे आदेः प्लुतस्तस्मात्परस्य च । ओ3श्रा3वय ॥
अत्रैवायं प्लुत इष्यत इति । ओस्वधेत्याश्रवणमित्यत्र तु तत्स्थानापन्नात्वाद्भवति । आ3स्वधेति । तथा चाश्वलायनः -ठ्नित्याः प्लुतयःऽ इति । उद्धर3 उद्धरेति । चापले द्विर्वचनम् ॥