8-2-91 ब्रूहिप्रेष्यश्रौषड्वौषडावहानाम् आदेः पदस्य पूर्वत्र असिद्धम् वाक्यस्य टेः यज्ञकर्मणि
ब्रूहि प्रेष्य श्रौषट् वौषट् आवह इत्येतेषामादेः प्लुतो भवति यज्ञकर्मणि। अग्नये॒ऽनुब्रू३हि॒ (श०ब्रा० २.५.३.१२)। प्रेष्य — अग्नये गोमयान् प्रे३ष्य॑। श्रौषट् — अस्तु॒ श्रौ३ष॒ट् (तै०सं० १.६.११.१)। वौषट् — सोमस्याग्ने वीही३वौ३ष॑ट् (ऐ०ब्रा० ३.५,६)। आवह — अ॒ग्निमा३व॑ह (तै०ब्रा० ३.५.३.२)। आव॑ह दे॒वान् यज॑मानाय (तै०ब्रा० ३.५.३.२) इत्येवमादावयं प्लुतो न भवति। <<सर्वे विधयश्छन्दसि विकल्प्यन्ते>> इति॥
एषामादेः प्लुतो यज्ञकर्मणि । अग्नयेनुब्रू3हि । अग्नये गोमयानि प्रे3ष्य । अस्तु श्रौ3षट् । सोमस्याग्ने वीही वौ3षट् । अग्निमा3वह ॥
पित्र्यायामनुस्वधेति सम्प्रेष्येत्यत्रापि अनुस्व3धेति प्लुतो भवति; ब्रूहिस्थानापन्नत्वात्स्वधाशब्दस्य । तथा अस्तु स्वधेति प्रत्याश्रवणमित्यत्रापि भवति; अस्तु स्वधेति श्रौषट्स्थानापन्नत्वात् । तथा च वषडित्येके समामनन्ति, वौषडित्येके, वाषडित्येके, वौक्षडित्येके, वाक्षडित्यके, वक्षाडित्येके इति षड्विधस्यापि वषट्कारस्य प्लुतो भवति; वषटकारोपलक्षणत्वाद्वौषट्शब्दस्य । आवह देवान् यजमानायेत्येवमादिष्विति । आदिशब्देन -आवह जातवेदः, सुयजा यजेत्यादेग्रेहणम् ॥