याज्याऽन्तः

8-2-90 याज्यान्तः पदस्य पूर्वत्र असिद्धम् वाक्यस्य टेः यज्ञकर्मणि टेः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

याज्या नाम ये याज्याकाण्डे पठ्यन्ते मन्त्रास्तेषामन्त्यो यष्टिः स प्लवते, यज्ञकर्मणि। स्तोम॑ैर्विधेमा॒ग्नये॑३ (ऋ० ८.४३.११)। जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह॑३म् (तै०सं० ४.४.४.१)। अन्तग्रहणं किम्? याज्या नाम ऋचः काश्चिद् वाक्यसमुदायरूपाः, तत्र यावन्ति वाक्यानि तेषां सर्वेषां टेः प्लुतः प्राप्नोति। सर्वान्त्यस्यैवेष्यते, तदर्थमन्तग्रहणम्॥

Siddhanta Kaumudi

Up

ये याज्या मन्त्रास्तेषामन्त्यस्य टे प्लुतो यज्ञकर्मणि । जिह्वामगग्ने चकृषे हव्यवाहा3म् (जि॒ह्वाम॑ग्ने चकृषे हव्यवाहा3म्) । अन्तः किम् । याज्यानामृचां वाक्यसमुदाय रूपाणां प्रतिवाक्यं टेः स्यात् । सर्वान्त्यस्य चेत्यते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

याज्याकाण्ड इति । याज्यानुवाक्याकाण्डमिति समाख्याने प्रकरणे । तेषामिति । मन्त्राणाम् । तासामिति पाठे तासां याज्यानामन्तः । प्लवत इति । त्रिमात्रतया वर्धत इत्यर्थः । अग्नये3 इति । चतुर्थ्येकवचनान्तस्याग्नयेशब्दस्य ठेचोऽप्रगृह्यस्यऽ इति प्लुतविकारः । इहेदमन्तग्रहणं टेरित्यस्य निवर्तकं वा स्याद्, विशेषणं वा; पूर्वस्मिन् कल्पे प्लुतश्रुत्याच्परिभाषोपस्थानादचान्ते विशेषेतेऽजन्ताया एव याज्यायाः प्लुतः स्यात् । पक्षान्तरे त्वन्तग्रहणमनर्थकम्; टेरन्तत्वाव्यभिचारादित्यभिप्रायेणाह - अन्तग्रहणं किमिति । इतरोऽपि विदिताभिप्राय आह - याज्या नामेति ॥