8-2-88 ये यज्ञकर्मणि पदस्य पूर्वत्र असिद्धम् वाक्यस्य टेः
ये इत्येतस्य यज्ञकर्मणि प्लुतो भवति। ये३ यजामहे। यज्ञकर्मणीति किम्? ये यजा॑मह॒ इति॒ पञ्चा॑क्षरम् (तै०सं० १.६.११.१) इति स्वाध्यायकाले मा भूत्। ये यजामह इत्यत्रैवायं प्लुत इष्यते। इह हि न भवति — ये दे॑वासो दि॒व्येका॑दश॒ स्थ (ऋ०१.१३९.११) इति॥
ये3यजामहे । यज्ञेति किम् । ये यजामहे ॥
ये यजामह इत्यत्रैवायं प्लुत इष्यते इति । पित्र्यायां ये स्वधेत्यत्रापि भवति; एतत्स्थानापन्नत्वातस्य ॥