8-2-87 ओम् अभ्यादाने पदस्य पूर्वत्र असिद्धम् वाक्यस्य टेः
अभ्यादानं प्रारम्भः, तत्र य ओम्शब्दः तस्य प्लुतो भवति। ओ३म् अ॒ग्निमी॑ळे पु॒रोहि॑तम् (ऋ० १.१.१)। अभ्यादान इति किम् ? ओमित्येतदक्षरमुद्गीथमुपासीत (छा०उप० १.१.१)॥
ओंशब्दस्य प्लुतः स्यादारम्भे । ओ3मग्निमीळे पुरोहितम् (ओ3म॒ग्निमी॑ळे पु॒रोहि॑तम्) । अभ्यादाने किम् । ओमित्येकाक्षरम् ॥
प्लुतश्रुत्याऽच्परिभाषोपस्थानादच एव प्लुतः, मकारस्त्वर्द्धमात्र इति समुदायोऽर्धचतुर्थमात्रः सम्पद्यते ॥