8-2-59 भित्तं शकलम् पदस्य पूर्वत्र असिद्धम् निष्ठातः नः न
भित्तमिति निपात्यते शकलं चेत् तद् भवति। भित्तं तिष्ठति। भित्तं प्रपतति। शकलपर्यायोऽयम्। अत्र भिदिक्रि या शब्दव्युत्पत्तेरेव निमित्तम्। भिदिक्रियाविवक्षायां हि शकलविषये भिन्नं भित्तमित्येव भवति॥
भिन्नमन्यत् ॥
<<भित्तं शकलम्>> - भित्तं शकलम् । शकले वाच्ये भिदेः क्तस्य नत्वाऽभावो निपात्यते । शकलत्वजातिविशिष्टेऽवयवार्थमनपेक्ष्य रूढोऽयम् । ततश्च भित्तशकलयोः पर्यायत्वान्न सहप्रयोगः । भिदिक्रियाविवक्षायां तुभित्तं भिन्न॑मिति भवतीति भाष्ये स्पष्टम् ।
शकलपर्यायोऽयमिति । यथा शकलशब्दो जातिशब्दः, न क्रियाशब्दः, तथा भितशब्दोऽपीत्यर्थः । नन्वयं भिदेर्धातोः व्युत्पाद्यमानः क्रियाशब्दः, स कथं जातिशब्दस्य पर्यायो भवति ? अत आह - अत्रेति । सन्ति हि ते शब्दा येषु व्युत्पत्तिमात्रोपयोगिनी क्रिया, जातिरेव तु समुदायशक्त्या शब्दार्थः, यथा - तैलं पिबतीति तैलपायिकेति । किमर्थं पुनरेवमाश्रीयते ? इत्याह - भिदिक्रियाविवक्षायां हीति । साम्यप्रतिपादनार्थं शकलग्रहणम् । यता विदाहरणविवक्षायां भिन्नं शकलमिति भवति, तथा भिन्नं भितमित्येव प्रयोग इत्यर्थः । क्रियाशब्दत्वे तु भिन्नशब्देनैव क्रियाया उपातत्वाद्भिन्नमित्यस्यैव प्रयोगो न स्यात् । अन्ये त्वाहुः - यथा विदारणक्रियया शकलं निवर्तते, तदा तामङ्गीकरोत्येव भिन्नशब्दः, यत् शकलस्य सतो विदारणं तदा तत्प्रतिपादनाय भिन्नं भितमिति प्रयोग इति ॥