8-2-56 नुदविदोन्दत्राघ्राह्रीभ्यः अन्यतरस्याम् पदस्य पूर्वत्र असिद्धम् निष्ठातः नः
index: 8.2.56 sutra: नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्
नुद विद उन्द त्रा घ्रा ह्री इत्येतेभ्यः उत्तरस्य निष्ठातकारस्य नकार आदेशो भवति अन्यतरस्याम्। नुद नुन्नः, नुत्तः। विद विन्नः, वित्तः। उन्द समुन्नः, समुत्तः। त्रा त्राणः, त्रातः। घ्रा घ्राणः, घ्रातः। ह्री ह्रीणः, ह्रीतः। ह्री इत्येतस्मादप्राप्तं नत्वम्, इतरेषां नित्यं प्राप्तं विकल्प्यते। विद विचारणे इत्यस्य विदेरिह ग्रहणम् इष्यते। एवं ह्युक्तम् वेत्तेस्तु विदितो निष्ठा विद्यतेर्विन्न इष्यते। विनतेर्विन्नश्च वित्तश्च भोगवित्तश्च विन्दतेः। इति।
index: 8.2.56 sutra: नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्
एभ्यो निष्ठातस्य नो वा । नुन्नः । नुत्तः । विदविचारणे रौधादिक एव गृह्यते उन्दिना परेण साहचर्यात् । विन्नः । वित्तः । वेत्तेस्तु विदितः । विद्यतेर्विन्नः । उन्दी ॥
index: 8.2.56 sutra: नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्
नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् - नुदविदोन्द । ह्यीधातोरप्राप्ते, इतरेभ्यो नित्यं प्राप्ते न्तवविकल्पोऽयम् । रौधादिक इति । 'विद विचारणे' इत्ययमित्यर्थः । वेत्तेस्त्विति । 'विद ज्ञाने' इत्यस्येत्यर्थः । अयं सेट्, अनिट्केष्वनन्तर्भावात् । तदाह — विदित इति । अत्र निष्ठातस्य इटा व्यवहितत्वान्नत्वं नेति भावः । विद्यतेर्विन्न इति ।विद सत्ताया॑मित्ययमनिट् ।रदाभ्या॑मिति नित्यं नत्वमिति भावः । उन्दीति । उदाहरणसूचनम् ।
index: 8.2.56 sutra: नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्
अत्रानन्तरस्य निपातनस्य विधातुमशक्यत्वाद्व्यवहितं विधेयमिति स्थिते'शुषः कः' इत्यादिभिरादेशान्तरैर्व्यवहितमपि नत्वमेव विधीयते । कथम् ? उतरसूत्रे तावतदेव प्रतिषिध्यते; प्राप्तिपूर्वकत्वात्प्रतिषेधस्य । तस्मातदेव बुद्धौ विपरिवर्तमानमत्रापि विकल्प्यते । समुन्न इति । ठुन्दी क्लेदनेऽ, ईदित्वादिट्प्रतिषेधः, ठनिदिताम्ऽ इत्युपधालोपः । उभयत्र विभाषेयमित्याह - ह्री इत्येतस्येति । विद विचारण इत्यस्येति । रौधादिकस्य; उन्दिना रौधादिकेन साहचर्यात् । यद्यपि तौदादिकेन नुदिनापि साहचर्यम्, तथापि परसाहचर्यमेव व्यवस्थापकम्;'विप्रतिषेधे परम्' इत्यस्यैवमादावप्युपयोगात् । विचारणार्थस्य ग्रहणमित्येतदाप्तागमेन द्रढयति - एवं ह्युक्तमिति । वितेर्धातोर्निष्ठान्तशब्दरूपं विदित इतीष्यते, तस्य सेट्त्वात्; इह च रदाभ्यां निष्ठातःऽ इत्यनुवृतेः विद्यतेः सतार्थस्य विदेर्विन्न इतीष्यते; तस्यानिट्त्वात्, इह च तस्याग्रहणात् । विन्तेरिति । तिङ्न्तानुकरणात् षष्ठी । भोगवित इति । एकार्थीभावाभावेऽपि भाष्यकरनिपातनात्सप्तमीसमासः । भोगग्रहणमुपलक्षणम् । भोग प्रत्यययोरर्थयोः विन्दतेस्तौदादिकस्य विदेर्वित इतीष्यते, अन्यत्र विन्न इति नत्वमेव भवति, न त्वयं विकल्प इत्यर्थः । उक्तोऽत्र हेतुः ॥