8-2-55 अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः पदस्य पूर्वत्र असिद्धम् निष्ठातः नः
index: 8.2.55 sutra: अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः
फुल्ल क्षीब कृश उल्लाघ इत्येते निपात्यन्ते, न चेदुपसर्गादुत्तरा भवन्ति। फुल्लः इति ञिफला विशरणे इत्येतस्माद् धातोरुत्तरस्य निष्ठातकारस्य लकारो निपात्यते। उत्वमिडभावश्च सिद्ध एव। क्तवत्वन्तस्य अप्येतल् लत्वम् इष्यते, फुल्लः, फुल्लवानिति। क्षीबकृशोल्लाधाः इति क्षीबिकृशिभ्यामुत्पूर्वाच् च लाघेः क्त प्रत्ययस्य तलोपः इडभावश्च निपात्यते। कृते व इटि इच्छब्दलोपः। क्षीबः। कृशः। उल्लाघः। अनुपसर्गादिति किम्? प्रफुल्ताः सुमनसः। प्रक्षीबितः। प्रकृशितः। प्रोल्लाधितः। लाघेरुदोऽन्यः उपसर्ग प्रतिषिध्यते। उत्फुल्लसम्फुल्लयोरिति वक्तव्यम्। उत्फुल्लः। सम्फुल्लः। परिकृशः इत्यत्र यः परिशब्दः स क्रियान्तरयोगात् कृशिं प्रत्यनुपसर्ग एव, परिगतः कृशः परिकृशः इति।
index: 8.2.55 sutra: अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः
ञिफाला । फुल्लः । निष्ठातस्य लत्वं निपात्यते । क्तवत्वेकदेशस्यापीदं निपातनमिष्यते । फुल्लवान् । क्षीबादिषु तु क्तप्रत्ययस्यैव तलोपः । तस्यासिद्धत्वात्प्राप्तस्येटोऽभावश्च निपात्यते । क्षीबो मत्तः । कृशस्तनुः । उल्लाघो नीरोगः । अनुपसर्गात्किम् ॥
index: 8.2.55 sutra: अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः
अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः - अनुपसर्गात् । एते निपात्यन्ते, उपसर्गात्परा न चेदित्यर्थः । लत्वमिति ।आदितश्चे॑ति इडभावः,ति चे॑त्युत्त्वं च सिद्धमिति भावः । 'फल निष्पत्तौ' इत्यस्य तु नाऽत्र ग्रहणम्, इडभावस्याऽपि निपात्यत्वापत्तेः । ननु क्तवतुप्रत्यये फुल्लवानिति कथं, क्तवतुप्रत्यये क्तस्याऽनर्थकत्वेन फुल्लशब्देनाऽग्रहणादित्यत आह — क्तवत्वेकदेशस्यापीति । क्षीबादिष्विति । क्षीबकृशोल्लाघेष्वित्यर्थः । क्तप्रत्ययस्यैवेति । नतु क्तवत्वेकदेशस्यापीत्यर्थः । अनर्थकत्वादित भावः । तस्येति । तलोपस्येत्यर्थः । क्षीबो मत्त इति । क्षीबेः क्तः, तलोपः, इडभावश्च । अत्र मत्तादिरेवार्थः, निपातनबलात् । अनुपसर्गात्किमिति । अत्र 'प्रफुल्त' इति प्रत्युदाहरणं विवक्षंस्तत्र विशेषमाह —
index: 8.2.55 sutra: अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः
फुल्ल इति । ठादितश्चऽ इतीट्प्रतिषेधः, ठुत्परस्यातःऽ,'ति च' इत्युत्वम् । क्तवत्वन्तस्याप्येतल्लत्वमिष्यत इति । निष्ठायास्तशब्दान्तं यद्रूपं तस्य फुल्लः - इत्येतन्निपात्यत इति भावः । क्षीबादिषु तु नैतदिष्यते । इडभाव इति । अन्यथा तलोपस्यासिद्धत्वाद्वलादित्वादिट् प्रसज्येत । कृते वा इटि इच्छब्दलोप इति । निपात्यत इत्यपेक्षते । लाघेरुदोऽन्य इति । उदस्तु प्रतिषेधो न भवति; निर्देशसामर्त्यात् । कृशि प्रत्यनुपसर्ग एवेति ।'यत्क्रियायुक्ताः प्रादयस्तं प्रति' इति वचनात् । क्रियान्तरयोगमेव दर्शयति - परिगतः कृश इति । कार्श्येन परिगत इत्यर्थः । यद्यपि फुल्लादयः पचाद्यचि इगुपधलक्षणे के च सिध्यन्ति, तथापि'निष्ठा च द्व्यजनात्' इत्यादिकार्यसिद्धये, क्षीबिताद्यनिष्टशब्द निवृतये च निपातनम्; फुल्लशब्दे तु फुल्लावनित्येतदर्थं च ॥