प्रस्त्योऽन्यतरस्याम्

8-2-54 प्रस्त्यः अन्यतरस्याम् पदस्य पूर्वत्र असिद्धम् निष्ठातः नः मः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

प्रपूर्वात् स्त्यायतेरुत्तरस्य निष्ठातकारस्यान्यतरस्यां मकारादेशो भवति। प्रस्तीमः। प्रस्तीमवान्। प्रस्तीतः। प्रस्तीतवान्। यदा मत्वं नास्ति तदा <<संयोगादेरातो धातोर्यण्वतः>>८.२.४३ इत्यस्य पूर्वत्रासिद्धत्वात् संप्रसारणं प्रथमं क्रियते। तत्र कृते निमित्तव्याघाताद् नत्वं न भवति॥

Siddhanta Kaumudi

Up

निष्ठातस्य मो वा स्यात् । प्रस्तीमः । प्रस्तीतः । प्रात्किम् । स्त्यानः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<प्रस्त्योऽन्यतरस्याम्>> - प्रस्त्योऽन्यतरस्याम् । 'प्रस्त्य' इति पञ्चमी । प्रपूर्वात्स्यैधातोरित्यर्थः । 'निष्ठातस्य म' इति शेषः । प्रस्तीम इति । सङ्गीभूत इत्यर्थः ।

Padamanjari

Up

प्रस्तीम इति ।'स्त्यः प्रपूर्वस्य' इति सम्प्रसारणम् ॥