8-2-49 दिवः अविजिगीषायाम् पदस्य पूर्वत्र असिद्धम् निष्ठातः नः
दिव उत्तरस्य निष्ठातकारस्य नकारादेशो भवति अविजिगीषायामर्थे। आद्यूनः। परिद्यूनः। अविजिगीषायामिति किम्? द्यूतं वर्तते। विजिगीषया हि तत्राक्षपातनादि क्रियते॥
दिवो निष्ठातस्य नः स्यादविजिगीषायाम् । द्यूनः । विजिगीषायां तु द्यूतम् ॥
<<दिवोऽविजिगीषायाम्>> - दिवो ।अविजिगीषाया॑मिति च्छेदः । द्यून इति । स्तुत इत्यर्थः ।च्छ्वो॑रित्यूठ् । विजिगीषायां तु द्यूतमिति । द्यूतस्य विजिगीषया प्रवृत्तेरिति भाव- ।
आद्यौउन इति ।'च्छवोः शूङ्' । आद्यौउनःउऔदरिकः । परिद्यौउनःउक्षीणः । द्यौउतं वर्तते इति । नन्वत्राक्षादिपतनलक्षणा क्रीडा प्रतीयते, न विजिगीषा ? अत आह - विजिगीषया हीति ॥