8-2-50 निर्वाणः अवाते पदस्य पूर्वत्र असिद्धम् निष्ठातः नः
निर्वाण इति निस्पूर्वाद् वातेरुत्तरस्य निष्ठातकारस्य नकारो निपात्यते, न चेद् वाताधिकरणो वात्यर्थो भवति। निर्वाणोऽग्निः। निर्वाणः प्रदीपः। निर्वाणो भिक्षुः। अवात इति किम्? निर्वातो वातः। निर्वातं वातेन। निर्वाणः प्रदीपो वातेनेत्यत्र तु प्रदीपाधिकरणो वात्यर्थः, वातस्तु तस्य करणमिति भवत्येव नत्वम्॥
अवाते इति छेदः । निर्पूर्वाद्वातेर्निष्ठातस्य नत्वं स्याद्वातस्चेत्कर्ता न । निर्वाणोऽग्निर्मुनिश्च । वाते तु निर्वातो वातः ॥
<<निर्वाणोऽवाते>> - निर्वाणोऽवाते । कर्ता नेति । निरित्युपसर्गपूर्वो वाधातुर्विनाशे वर्तते, उपरमे च । तस्मिन् धात्वर्थे यदिवायुः कर्ता तदा नत्वं नेत्यर्थः । वनिर्वाणोऽग्निर्मुनिर्वेति । नष्ट, उपरत इति क्रमेणार्थः ।गत्यर्थाकर्मके॑त्यादिना कर्तरि क्तः । निर्वातो वात इति । अत्र वातस्य कर्तृत्वान्नत्वं नेति भावः ।निर्वाणो दीपो वातेने॑त्यत्र तु वातस्य करणत्वे विवक्षितत्वात्कर्तृत्वाऽभावान्नत्वं निर्वाह्रम् । भावे तु निर्वातं वातेन ।
वाताधिकरण इति । वातकर्तृक इत्यर्थः । यदि'वातश्चेदभिधेयो न भवति' इत्यर्थः स्यात्, तदा निर्वातो वात इत्यत्रैव प्रतिषेधः स्याद्यत्र कर्तरि क्तः; यत्र तु भावे तत्र न स्यात् - निर्वातं वातेनेति । निर्वाणोऽग्निरिति । उपशान्त इत्यर्थः । निर्वाणो भिक्षुरिति । उपरत इत्यर्थः । वातस्तु करणमिति । यथासम्भवं करणत्वे हेतौ वा तृतीया द्रष्टव्या । यथा तु वार्तिकं तथा भावे प्रतिषेधो न भवति, निर्वाणं वातेनेत्येव भवति ॥