8-2-48 अञ्चः अनपादाने पदस्य पूर्वत्र असिद्धम् निष्ठातः नः
अञ्चतेरुत्तरस्य निष्ठातकारस्य नकारादेशो भवति, न चेदपादानं तत्र भवति। समक्नौ शकुनेः पादौ। तस्मात् पशवो न्यक्नाः (काठ० सं० २९.९)। अनपादान इति किम्? उदक्तमुदकं कूपात्। व्यक्तमित्येतदञ्जे रूपम्॥
अञ्चो निष्ठातस्य नः स्यान्न त्वपादाने ॥
<<अञ्चोऽनपादाने>> - अञ्चोऽनपादाने । न त्वपादाने इति । अपादानसमभिहव्याहारे असतीत्यर्थः ।
न चेदपादानं तत्र भवतीति । तत्राञ्चत्यर्थे विषयेऽपादानं चेन्न भवतीत्यर्थः । समकाविति । सङ्गतावित्यर्थः ।'यस्य विभाषा' इतीट्प्रतिषेधः, ठनिदिताम्ऽ इत्युपधालोपः । उदक्तमिति । उद्धतमित्यर्थः । व्यक्तमित्येतदिति । ठञ्जू व्यक्तिम्रक्षणकान्तिगतिषुऽ इत्यस्येदं रूपम्, नाञ्चतेः; तेन नत्वमिदं न भवतीति भावः ॥