श्योऽस्पर्शे

8-2-47 श्यः अस्पर्शे पदस्य पूर्वत्र असिद्धम् निष्ठातः नः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

श्यायतेरुत्तरस्य निष्ठातकारस्यास्पर्शे नकार आदेशो भवति। शीनं घृतम्। शीनं मेदः। शीना वसा। अस्पर्श इति किम्? शीतं वर्तते। शीतो वायुः। शीतमुदकमित्यत्र गुणभूतोऽपि स्पर्शो नत्वप्रतिषेधस्य संप्रसारणस्य च निमित्तं भवति। गुणे च स्पर्शे प्रतिषेधोऽयं न रोगे, तेन प्रतिशीन इत्यत्र नत्वं भवत्येव॥

Siddhanta Kaumudi

Up

श्यैङो निष्ठातस्य नः स्यादस्पर्शेऽर्थे । हलः - <{SK2559}> इति दीर्घः । शीनं घृतम् । अस्पर्शे किम् । शीतं जलम् । द्रवमूर्तिस्पर्शयोः किम् । संश्यानो वृश्चिकः । शीतात्संकुचित इत्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<श्योऽस्पर्शे>> - श्योऽस्पर्शे । श्यः- अस्पर्शे इति छेदः । दीर्घ इति । नत्वात्प्रागेव 'हल' इति दीर्घ इत्युचितम्, नत्वस्य त्रैपादिकत्वात् । शीनं घृतमिति । घनीभूतमित्यर्थः । धातूनामनेकार्थत्वात् । यद्यपि घृतेऽप्यनुष्णस्पर्शोऽस्त्येव, तथापि शीताख्यस्पर्शविशेष एव विवक्षित इति भावः । अस्पर्शे किमिति । श्यैङो निष्ठातस्य नत्वं स्यादित्येतावदेवास्त्वित्यर्थः । शीतं जलमिति । शीतस्पर्शवदित्यर्थः । अत्रद्रवमूर्ती॑ति संप्रसारणमेव न तु निष्ठानत्वमित्यर्थः । एवं चद्रवमूर्तिस्पर्शयो॑रित्स्य स्पर्शे इदमुदाहरणम् । 'श्योऽस्पर्शे' इत्यस्य तु प्रत्युदाहरणमिति बोध्यम् । सूत्रयोः स्पर्शशब्दः प्रधानभूते गुणभूते च वर्तते । तत्र गुणभूते विशेष्यनिघ्नः । शीता आपः, शीतं जलमित्यादि । यदा तु स्पर्सविशेषो गुणः प्राधान्येन विवक्षितस्तदा क्लीबत्वमेव ।शीतं गुणे॑इत्यमरः । #एसंप्रसारणविधौ पृच्छति — द्रमूर्तिस्पर्शयोः किमिति । संश्यान इति । अत्र स्पर्शस्याऽप्रतीतेर्न संप्रसारणम् । नत्वं तु भवत्येवेति भावः ।

Padamanjari

Up

शीनमिति ।'श्यैङ् गतौ' ,'द्रवमूर्तिस्पर्शयोः श्यः' इति सम्प्रसारणम् । गुणभूतोऽपि स्पर्श इति । एतच्च व्याख्यानाल्लभ्यते, स्पर्शशब्दोऽयमस्ति गुणवचनः,'स्पृश संस्पर्शने' , भावे कर्मणि वा घञ् - स्पर्शस्त्वगिन्द्रियग्राह्यए गुणः; अस्ति रोगवचनः,'स्पृश उपतापे' , घञ् - स्पर्शः; तदिह विशेषानुपादानाद् द्वयोरपि ग्रहणम् । ततश्च रोगेऽपि प्रतिषेधात्प्रशीन इति न सिध्येत् ? अत आह -गुणे चेति । गुण एवेत्यर्थः । एवं मन्यते - यदयम्'द्रवमूर्तिस्पर्शयोः श्यः' इति स्पर्शे संप्रसारणं विधायपुनः'प्रतेश्च' इत्याह, तज्ज्ञापयति - श्यायतेर्ग्रहणे स्पर्शशब्दो रोगं न प्रत्याययतीति । यदि प्रत्याययेत् पुनर्न विदध्यात्, प्रतिपूर्वो रोग एव श्यायतिर्वर्तते ॥