8-2-46 क्षियः दीर्घात् पदस्य पूर्वत्र असिद्धम् निष्ठातः नः
index: 8.2.46 sutra: क्षियो दीर्घात्
क्षियो धातोः दीर्घादुत्तरस्य निष्ठातकारस्य नकारादेशो भवति । क्षीणाः क्लोशाः । क्षीणः जाल्मः । क्षीणः तपस्वी । क्षियः निष्ठायामण्यदर्थे 6.4.60, वा आक्रोशादैन्ययोः 6.4.61 इति दीर्घत्वं भवति । दीर्घातिति किम् ? अक्षितमसि मामेक्षेष्ठाः । अक्षितम् इति क्तप्रत्ययो भावे, भावश्च ण्यदर्थः इति दीर्घाभावः । ह्रस्वस्य अपि हि धात्वनुकरणस्य इह इयङा निर्देशः । क्षियः निष्ठायामण्यदर्थे 6.4.60 इत्यत्र दीर्घग्रहणं क्रियते । विपराभ्यां जेः 1.3.19 इत्येवमादौ तु धातुत्वमनुकार्यगतं सदप्यविवक्षितत्वाद् जिरुपसामान्यानुकरणं द्रष्टव्यम् ॥
index: 8.2.46 sutra: क्षियो दीर्घात्
दीर्घात् क्षियो निष्ठातस्य नः स्यात् । क्षीणवान् । भावकर्मणोस्तु क्षितः कामो मया । श्र्युकः किति <{SK2381}> । श्रितः । श्रितवान् । भूतः । भूतवान् । क्षुतः ।<!ऊर्णोतेर्णुवद्भावो वाच्यः !> (वार्तिकम्) ॥ तेन एकाच्त्वान्नेट् । ऊर्णुतः । नुतः । वृतः ॥
index: 8.2.46 sutra: क्षियो दीर्घात्
क्षियो दीर्घात् - क्षियो दीर्घात् । दीर्घादितिक्षियो विशेषमं । तदाह — दीर्घात्क्षिय इति । दीर्घान्तादित्यर्थः । निष्ठातस्य न इति ।रदाभ्या॑मित्यतस्तदनुवृत्तेरिति भावः । क्षीणवानिति । क्षिधातोः कर्तरि क्तवतुः, 'निष्ठायामण्यदर्थे' इति दीर्घः, तकारस्य नत्वम्, षात्परत्वाण्णः । क्षितः कामो मयेति । क्षपित इत्यर्थः । 'क्षि क्षये' इत्यस्मादन्तर्भावितण्यर्थात्कर्मणि क्तः । भावे तु क्षितं कामेनेत्युदाहार्यम् । अत्र ण्यदर्थयोर्भावकर्मणोर्विहिते क्ते दीर्घो न भवति, अण्यदर्थ इत्युक्तेः । दीर्घान्तत्वाऽभावात्क्षियो दीर्घा॑दिति नत्वं न । श्र्युकः कितीति । 'श्रित' इत्यादौ इण्निषेधस्मारकमिदम् । क्षुतैति । 'टु क्षु शब्दे' अस्मात्क्तः । ननु ऊर्णुत इति कथम्, अनेकाच्कत्वेनश्र्युक॑इति निषेधस्याऽप्रवृत्तेरित्यत आह — ऊर्णोतेर्नुवदिति । वार्तिकमिदम् ।
index: 8.2.46 sutra: क्षियो दीर्घात्
'क्षि क्षये' ,'क्षि निवासगत्योः' - द्वयोरपि ग्रहणम् । क्षीणा इति । अकर्मकत्वात् कर्तरि क्तः,'निष्ठायामण्यदर्थे' इति दीर्घः । क्षीणस्तपस्वीति । अत्रापि'वा' ऽक्रोशदैन्ययोःऽ इति ।'दीर्घात्' इति शक्यमवक्तुम्,'क्षियः' इति निर्देशादेव दीर्घस्य ग्रहणं विज्ञायते, ह्रस्वस्य हि ग्रहणे इयङदेशात्परत्वात्'घिर्ङिति' इति गुणे कृते क्षेरिति निर्देअष्टव्यं स्यादित्यत आह - ह्रस्वान्तस्यापीति । यथाभूतस्य दीर्घत्वं विधेयं तथाभूतमेवानुकर्तुं युक्तम् । ह्रस्वान्तस्य च दीर्घत्वं विधेयमिति तस्यैव दीर्घविधावनुकरणम् । तत्रापि चेयङदेशो दृष्टः, तस्मादियङदेशो न दीर्घग्रहणे प्रमाणमित्यर्थः । यदि तर्हि ह्रस्वान्तस्यापि धात्वनुकरणस्येयङदेशो भवति'विपराभ्यां जेः' इत्यादावपि प्रसङ्गः ? इत्यत आह - विपराभ्यां जेरित्येवमादौ त्विति । अविवक्षित्वेति पाठः । तत्र हि धातावनुकार्येऽवस्थितं धातुत्वं क्रियावाचित्वलक्षणमविवक्षितत्वातस्य विवक्षामकृत्वा रूपसामान्यस्य - विजितम्, कूजितमित्यादिसाधारणस्य रूपस्यानुकरणम्, ततश्च विशेषणिबन्धनस्य कार्यस्य सामान्येऽभावात्प्रकृतावदृष्टत्वादनुकरणेऽप्यभाव इत्यर्थः । यदा तु विशेषोऽनुक्रियते, तदा तन्निबन्धनं कार्यमनुकरणे प्रवर्तते, यथात्रेयङदेशः । यद्येवम्, विभक्त्युत्पत्तिर्न प्राप्नोति, ठधातुःऽ इति प्रतिषेधेन प्रातिपदिकसंज्ञाया अभावात् ? नैष दोः; अधातुरिति पर्युदासोऽयम्, न प्रसज्यप्रतिषेधः । ततः किम् ? आतिदेशिकस्य कस्यचित् कार्यस्याभावात् धातोरन्यत्वात्स्वाश्रया प्रातिपदिकसंज्ञा प्रवर्तते । इयङदेशस्त्वातिदेशिको धातोर्विधीयमानत्वाद्भवति ॥