उपसर्गस्यायतौ

8-2-19 उपसर्गस्य अयतौ पदस्य पूर्वत्र असिद्धम् रः लः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अयतौ परत उपसर्गस्य यो रेफस्तस्य लकार आदेशो भवति। प्लायते। पलायते। अत्र च योऽयमेकादेशः, तस्य स्थानिवद्भावादयतेरुपसर्गस्य च विभागे सति, यद्ययतिग्रहणं रेफस्य विशेषणम्, तदा <<येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्>> (व्या०प० ४६) इत्येकेन वर्णेन व्यवधानेऽपि सति लत्वं भवति। तथा च पल्ययत इत्यत्रापि भवति। उपसर्गविशेषणे त्वयतिग्रहणे सिद्धमेवैतत् सर्वम्, प्रतेरपि तु व्यवहितेऽपि प्राप्नोति। तत्र केषांचिद् दर्शनम् — भवितव्यमेव प्लत्ययत इति। प्रथमपक्षदर्शनाभिनिविष्टास्तु प्रत्ययत इत्येव भवतीति मन्यन्ते। अपरे तु प्रतिशब्दोपसृष्टस्यायतेः प्रयोगमेव नेच्छन्ति। निस् दुस् इत्येतयोस्तु रुत्वस्यासिद्धत्वाद् लत्वेन नैव भवितव्यम्। निरयणम्। दुरयणम्॥

Siddhanta Kaumudi

Up

अयतिपरस्योपसर्गस्य यो रेफस्तस्य लत्वं स्यात् । प्लायते । पलायते । निस्दुसोरुत्वस्यासिद्धत्वान्न लत्वम् । निरयते । दुरयते । निर्दुरोस्तु । निलयते । दुलयते । प्रत्यय इति त्विणो रूपम् । अथ कथमुदयति विततोर्ध्वरश्मिरज्जाविति माघः । इटकिटकटी इत्यत्र प्रश्लिष्टस्य भविष्यति । यद्वा । [(परिभाषा - ) अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम्] । चक्षिङो ङित्करणाज्ज्ञापकात् । वादित्वात् । ववये । पेये । मेये । चेये । तेये । प्रणयते । नेये ।{$ {!481 दय!} दानगतिरक्षणहिंसादानेषु$} । आदानं ग्रहणम् । दयांचक्रे ।{$ {!482 रय!} गतौ $}।{$ {!483 ऊयी!} तन्तुसन्ताने$} । ऊयांचक्रे ।{$ {!484 पूयी!} विशरणे दुर्गन्धे च$} । पूयते । पुपूये ।{$ {!485 क्नूयी!} शब्दे उन्दे च$} । चुक्नूये ।{$ {!486 क्ष्मायी!} विधूनने$} । चक्ष्माये ।{$ {!487 स्फायी!} {!488 ओप्यायी!} वृद्धौ$} । स्फायते । पस्फाये । प्यायते ॥

Laghu Siddhanta Kaumudi

Up

अयतिपरस्योपसर्गस्य यो रेफस्तस्य लत्वं स्यात्। प्लायते। पलायते॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<उपसर्गस्यायतौ>> - उपसर्गस्याऽयतौ । अयताविति श्तिपा निर्देशः । 'कृपो रो ल' इत्यतो रो ल इत्यनुवर्तते । तदाह — अयतिपरस्येत्यादिना । प्लायत इति । प्र इत्युपसर्गः । प्लायत इति । परा इत्याकारान्त उपसर्गः । ननु निरयते दुरयत इत्यत्रापि लत्वं स्यादित्यत आह -निस्दुसोरिति । तर्हि निलयते दुलयत इति कथमित्यत आह — निर्दुरोस्त्विति । एतदर्थमेव प्रादिषु रेफान्तयोश्च निर्देश इति भावः । तर्हि 'प्रत्यय' इत्यत्रापि प्रतेरयतिपरत्वाद्रस्य लत्वं स्यादित्यत आह - प्रत्यय इति त्विति । प्रतिपूर्वकादिण्धातोरतच्प्रत्यये 'प्रत्यय' इति रूपम् । अयतिपरत्वाऽभावान्न लत्वमित्यर्थः । अयधातुमादय 'प्लत्यय' इति न, अनभिधानादिति कैयटः । कथमुदयतीति । उत्पूर्वकादयधातोः शत्रन्तात्सप्तम्यन्तमिति मत्वा आक्षेपः । अनुदात्तेत्त्वेन लटः शानच्प्रसङ्गादिति भावः । प्रश्लिष्टस्येति ।इधातो॑रिति शेषः । तस्य अनुदात्तेत्त्वाऽबावाच्छतृप्रत्ययो निर्बाध इति भावः । ज्ञापकादिति ।चक्षिङ् धातोरिकारस्याऽनुदात्ततया अनुदात्तेत्त्वादेवात्मनेपदसिद्धौ ङित्करणमनुदात्तेत्त्वप्रयुक्तात्मनेपदस्याऽनित्यतां ज्ञापयति । तस्याऽनित्यत्वे तु नित्यात्मनेपदार्थं ङित्करणमर्थवदिति भावः । इदं तु भाष्ये न दृश्यते । वादित्वादिति वयधातोर्लिटि वादित्वादेत्वाभ्यासलोपयोरभावे सति 'ववये' इति रूपमित्यर्थः । णयधातुर्णोपदेश इति मत्वा आह — प्रणयत इति ।उपसर्गादसमासेऽपी॑ति णत्वमिति भावः । दयांचक्र इति ।दयायासश्चे॑त्याम् । ऊयांचक्र इति । इजादित्वादाम् । उन्दने चेति । क्लेदने चेत्यर्थः । स्फायी ओप्यायीति । ओदित्त्वम्ओदितश्चे॑ति निष्ठानत्वार्थम् । ईदित्त्वं तुश्वीदितो निष्ठाया॑मितीण्निषेधार्थम् ।

Padamanjari

Up

अयतौ पर इति । अत्र द्वौ पक्षौ - अयतिग्रहणं रेफविशेषणम् - अयतिपरस्य रेफस्य, स चेदुपसर्गस्येति; उपसर्गविशेषणं वा - अयतिपरस्योपसर्गस्य यो रेफ इति । तत्राद्ये पक्षे एवमन्वयः - अयतौ परतो यो रेफ उपसर्गसम्बन्धी तस्येति; द्वितीये तु - अयतौ परतो य उपसर्गस्तस्य यो रेफस्तस्येति । प्लायत इति । अयतिरनुदातेत् । कथं तहि ठुदयति विततोर्ध्वरश्मिरज्जौऽ इति परस्मैपदम् ? किमनेन वन्यगजशौचेन ! यदि वा - पचाद्यजन्तादुदयशब्दादाचारे क्विपि लट् । केचितु ठिट कटी गतौऽ इत्यत्र इकारमपि धातुं पठन्ति । यथा त्वत्र दर्शिते पक्षद्वयेऽपि दोषो न भवति, तथा क्रमेण दर्शयति -अत्रेति । स्थानवद्भावादिति ।'पूर्वत्रासिद्धे न स्थानिवत्' इत्येतत्विह न भवति;'तस्य दोषः संयोगादिलोपलत्वणत्वेषु' इत्यपवादस्मरणात् । यद्ययतिग्रहणं रेफस्य विशेषणमिति । कार्यित्वेन प्रधानत्वात् । एकेन वर्णेनेति । एकग्रहणं प्रत्यय इत्यत्र सङ्घातेन व्यवाये न भवतीति प्रदर्शनार्थम् । तथा चेति । एवं च कृत्वेत्यर्थः । पल्ययत इत्यत्रापीति । यत्र श्रूयमाणेनैकेनैव वर्णेन लौकिकं व्यवधानम्, तत्रापि प्रवर्तते । न केवलं प्लायत इत्यादौ यत्र स्थानिभावद्वारेण शास्त्रीयं तत्रैवेत्यपिशब्दस्यार्थः । अमुमेव विशेषं दर्शयितुमस्य पृथगुपन्यासः । ननु च'निर कुषः' ,'सुदुरोरधिकरणे' इति निर्देशाद्रेकान्तावप्युसर्गौ स्तः, तौ वचनस्यावकाशौ इति कथं व्यवधाने भवति ? उच्यते; यद्येतावत्प्रयोजनं स्यात्,'दुरोरयतौ' इत्येव ब्रूयात्, उपसर्गग्रहणातु व्यवायेऽपि भविष्यति, एतच्चैकवर्णव्यवधानेनाप्युपपन्नमिति न प्रत्ययत इत्यत्र प्रसङ्गः । उपसर्गविशेषणेत्विति । श्रुतत्वादिति भावः । सिद्धमेवैतत्सवामति ।'येन नाव्यवधानमित्यादि न कश्चित् यत्नो' स्मिन्पक्षेऽ इत्येवशब्दस्यार्थः । प्रतेरपि तु प्राप्नोतीति । पूर्वस्मिन्पक्षे सङ्घातेन व्यवायान्न प्राप्नोति, अत्र तु प्राप्नोतीत्यमुं विशेषं तुशब्दो द्योतयति । प्रथमपक्षदर्शनाभिनिविष्टास्त्विति । प्रथमपक्षस्य या दर्शनाउपरेभ्यः प्रतिपादना, तत्राभिनिविष्टाः उ तत्परायणा इत्यर्थः । अपरे त्वित्यादि । आप्तपर्यायः प्रत्ययितशब्द इतच्प्रत्ययान्तः, सञ्जातप्रत्ययाः प्रत्ययिता इति । निस्दुस् इत्येतयोस्त्विति । सकारान्तविषयो ग्रन्थः, रेफान्तयोस्तु भवितव्यमेव लत्वेन ॥