कृपो रो लः

8-2-18 कृपः रः लः पदस्य पूर्वत्र असिद्धम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कृपेर्धातो रेफस्य लकारादेशो भवति। र इति श्रुतिसामान्यमुपादीयते। तेन यः केवलो रेफः, यश्च ऋकारस्थः तयोर्द्वयोरपि ग्रहणम्। ल इत्यपि सामान्यमेव। ततोऽयं केवलस्य रेफस्य स्थाने लकारादेशो विधीयते। ऋकारस्याप्येकदेशविकारद्वारेण ऌकारः, एवं च <<लुटि च क्ऌपः>> १.३.९३ इत्येवमादयो निर्देशा उपपद्यन्ते। कल्प्ता, कल्प्तारौ, कल्प्तारः। चिक्ऌप्सति। क्ऌप्तः। क्ऌप्तवान्। कृपा इत्येतत् <<क्रपेः संप्रसारणं च>> (ग०सू० ३०) इति भिदादिषु पाठाद् भवति। तस्य हि कृतसंप्रसारणस्य लाक्षणिकत्वाद् इह कृप इति ग्रहणं नास्ति। कृपणकृपीटकर्पूरादयोऽपि क्रपेरेव द्रष्टव्याः। <<उणादयो बहुलम्>> ३.३.१ इति वा कृपेरेव लत्वाभावः॥ वालमूललघ्वसुरालमङ्गुलीनां वा रो लमापद्यत इति वक्तव्यम्॥ वालः, वारः। मूलम्, मूरम्। लघु, रघु। असुरः, असुलः। अलम्, अरम्। अङ्गुलिः, अङ्गुरिः॥ कपिलकादीनां संज्ञाछन्दसोर्वा रो लमापद्यत इति वक्तव्यम्॥ कपिरकः, कपिलकः। तिल्पिलीकम्, तिर्पिरीकम्। लोमानि, रोमाणि। पांशुरम्, पांशुलम्। कर्म, कल्म। शुक्रः, शुक्लः। रलयोरेकत्वस्मरणमिति केचित्। किमिदमेकत्वस्मरणमिति? समानविषयत्वमेव तयोः स्मर्यत इत्यर्थः॥

Siddhanta Kaumudi

Up

कृप उ इति छेदः । कृपेति लुप्तषष्ठीकम् । तच्चावर्तते । कृपो यो रेफस्तस्य लः स्यात् । कृपेरृकारस्यावयवो यो रेफसदृशस्तस्य च लकारसदृशः स्यात् । कल्पते । चकॢपे । चकॢपिषे । चकॢप्से इत्यादि स्यन्दिवत् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<कृपो रो लः>> - तङि प्रथमपुरुषैकवचनस्य टेरेत्त्वे शपि लघूपधगुणे रपरत्वे कर्पते इति स्थिते — कृपो रो लः । 'कृप' इति लुप्तविभक्तिकम् । षष्ठएकवचने उदिति ऋकरास्य रूपम् । अवयवषष्ठी । कृप उरिति स्थिते आद्गुणे कृपोरिति भवति । 'र' इति षष्ठन्तम् । कृपोर् रः इति स्थितेरो री॑ति रेफलोपे 'कृपो रः' इति भवति । 'ल' इति प्रथमान्तम् । अकार उच्चारणार्थः । तदाह - कृप उः [रः ल] इति च्छेद इति । एतच्च ऋऌक्सूत्रभाष्ये स्थितम् । ननु कृपेत्यत्र का विभक्तिर्लुप्तेत्यत आह — लुप्तषष्ठीकमिति । पकारादकार उच्चारणार्थः । कृप्धातोरिति लभ्यते । तच्चावर्तते इति । कृप रः लः इति पदत्रयमावर्तत इत्यर्थः । तथा च वाक्यद्वयं संपद्यते — 'कृप रः लः' इत्येकं वाक्यम् । तदाह — कृपो यो रेफस्तस्य लः स्यादिति । तथा च 'कल्पते' इति भवति । 'कृप उः रः लः' इति द्वितीयं वाक्यम् । तत्र कृपेत्वयवषष्ठन्तमुरित्यत्रान्वेति । उरित्यवयवषष्ठन्तं रेफे अन्वेति । तथाच कृप्धातोरवयवो य ऋकारस्तस्य यो रेफस्तस्य लकारः स्यादिति लभ्यते । तत्र ऋकारादवयवत्वं रेफस्य न संभवतीति रेपशब्दो रेफसदृशे ऋकारांशे लाक्षणिकः । ल इत्यपि लकारसदृशे ऌकारांशे लाक्षणिकः । तदाह — कृपेरृकारस्यावयव इत्याद#इना । एवं च लिटि चकृप् ए इतिस्थिते कित्त्वाद्गुणाऽबावे ऋकारैकदेशस्य रेफसदृशस्य लकारसदृशे सति 'चकॢपे' इति रूपम् । 'कृपः रः लः' इति च्छेदमभ्युपगम्य कृपधातो रेफस्य लकार इति व्याख्याने तु 'चकॢपे' इति न सिध्येत् । तदर्थमावृत्तिराश्रितेत्यभिप्रेत्याह — कल्पते चकॢपे इति । ऊदित्त्वादिड्विकल्पं मत्वा आह — चकॢपिषे चकॢप्से इति । स्यन्दिवदिति । चकॢपाथे चकॢपिध्वे — चक्लृब्ध्वे । चकॢपे चकॢपिवहे, चकॢपिमहे- चकॢप्महे ।

Padamanjari

Up

कृपो धातोरिति पाठः । भाष्ये -'कृपो रो लः' इति पठितत्वात् ।'नुड्विधिलादेशविनामेष्वृकारे प्रतिविधातव्यम्' इत्युक्तम्, तत्रावसरे प्राप्ते लादेशे प्रतिविधते - इति सामान्यमिति । वर्णत्वावर्णत्वकृतभेदतिरस्कारेण वर्णात्मिकायामवर्णात्मिकायां च रेफव्यक्तौ यत्सामान्यं वर्तते यतो द्वयोरपि तयो र इत्यभिन्नाभिधानप्रत्ययौ भवतः, तदुपादीयते; न तु वर्णात्मिकैव रेफव्यक्तिरित्यर्थः । ततः किम् ? इत्यत आह - तेनेति । इत्यपि सामान्यं चेति । उपादीयत इत्यपेक्षते । अत्रापि तेन यश्च केवलो लकारः, यश्च ऌकारस्थः, तयोर्द्वयोरपि ग्रहणमिति पठितव्यम्, पूर्वानुसारेण तु गम्यमानत्वान्न पठितम् । यदि द्वयोरपि ग्रहणम्, ततोऽपि किम् ? इत्याह - ततोऽयमिति । केवलस्यौशुद्धस्य । लकार आदेश इति । अत्रापि केवल इति द्रष्टव्यम् । ऋकारस्यापि ऌकार इति । आन्तरतम्यात् । ननु सत्यपि द्वयोरपि ग्रहणे ऋकारस्थस्य रेफस्य ऌकारस्थो लकार आदेशो भवतु, कथं तु कृत्स्नस्य कृत्स्नो वर्ण आदेशो लभ्यते ? इत्याशङ्क्योक्तम् - एकदेशद्वारेणेति । एकदेशविकारस्थो रेफः, तस्य विकार एकदेशविकारः । यद्वा - अत्र एकदेश ऌकारस्थो लकारः, स एव विकार एकदेशविकारः, तद्द्वारेण । तत एतदुक्तं भवति - अज्भक्तिसम्पुटितयो रेफलकारयोर्निष्कृष्य कर्तुमशक्यत्वात्समुदायस्य समुदाय आदेश इति । यदि निष्कर्षोऽशक्यक्रियः, मा भूतयोरुपादानम्, न पुनरेतावता सूत्रेऽनुपातयोः समुदाययोः स्थान्यादेशभावो विद्यते ? इत्यत आह -तथा चेति । एवमादय इति । आदिशब्देन'तासि च कॢपः' , ठृदुपधाच्चाकॢपि चृतेःऽ ठनवकॢप्त्यवमर्षयोःऽ इत्यादेर्ग्रहणम् । कल्प्तेति । ऊदित्वात्पक्षे इडभावः । अत्र लत्वस्यासिद्धत्वात् पूर्वं परस्मैपदे'तासि च क्लपः' इतीडभावः, अन्यत्र तु गुणे कृते रेफस्य लकारः । चिकॢप्सतीति ।'हलन्ताच्च' इति सनः कित्वम् । क्रपेरिति ।'क्रप कृपायाम्' । भवतु सम्प्रसारणे कृते रूपम्, तथापि रूपसामान्याद् ग्रहणप्रसङ्गः ? अत आह - तस्य हीति । क्रपेरेव द्रष्टव्या इति । रञ्जे क्युन्ऽ, बहुलवचनात्क्रपेरपि भवति'कृकृपिभ्यां कीटन्' इत्यत्रापि क्रपिरेव पठितव्यः ।'खर्जिपिञ्जादिभ्य ऊरोलचौ' क्रपेरपि भवतु, सर्वत्र बहुलवचनात् सम्प्रसारणम् । कर्पूरादय इति । आदिशब्देन कृपाणस्य ग्रहणम् ।'युधिबुधिदृशेः किच्च' इति बाहुलकात् कृपेरपि आनच् । यद्यवश्यं बाहुलकमाश्रयणीयम्, कृपेरपि न दोषः ? इत्याह - उणादय इति । बालेति ।'बल वल्ल संवरणे' , बल्यत इति बालः । मूलमिति ।'मूल प्रतिष्ठायाम्' इत्यस्मादिगुपधलक्षणः कः ।'लङ्घिवंह्यएर्नलोपश्च' इति कुप्रत्ययान्तो लघुशब्दः । अलमित्यव्ययम् । ठङ्गेः कुलिःऽ अङ्गुलः । ठमेर्गुरी रश्च लो वाऽ इति नाश्रितम् । कपिलकादिषुचारस्य लः । रोमाणीति । रौतेर्मनिन्, रोमन् नामन् सीमन् स्तोमन् होमन् सोमन् लोमन् व्योमन् विधर्मन् पाप्मन् धामन्ऽ इत्यत्र'लोमन् समान्' इति निपातनं नाश्रितम् । पांसुरमिति । पांसुरस्मिन्नस्तीति'नगपांसुपाण्डुभ्यश्च' इति रः ।'कृञो मनिन्' कर्म । शुक्रः, शुक्ल इति । ठृज्राग्रऽ इति निपातनं नाश्रितम् । अथ'कॢपू सामर्थ्ये, इत्येव कस्मान्न पठितम्, एवं हि लत्वं न विधेयं भवति ? नैतदस्ति; अचीकॢपदिति हि न सिध्येत् । ठृकारऌकारयोः सवर्णविधिः' इति ऌकारस्य ठुरत्ऽ इति अकारे कृते अचीकृपदिति स्यात्, लत्वविधौ तस्यासिद्धत्वात्पूर्वमृकारः, ततो लत्वमिति सिद्धमिष्टम् । तथा चलीकॢप्यते इति रीको पि लत्वसिद्धिर्भवति ॥