8-2-15 छन्दसि इरः पदस्य पूर्वत्र असिद्धम् मतोः वः सञ्ज्ञायाम्
छन्दसि विषय इवर्णान्ताद् रेफान्तात् चोत्तरस्य मतोर्वत्वं भवति। इवर्णान्तात् तावत् — त्रिवती याज्यानुवाक्या भवति। हरिवो मे॒दिनं॑ त्वा (तै०सं० ४.७.१४.४)। अधिपतिवतीर्जुहोति। च॒रुर॑ग्नि॒वाँ इ॑व (ऋ० ७.१०४.२)। आरेवानेतु मा विशत्। <<रयेर्मतौ०>> (६.१.३७ वा०) इति संप्रसारणम्। स॑र॒स्वती॒वान् भा॑र॒तीवान् (मै०सं० ३.१०.६)। दधि॑वांश्च॒रुः (शौ०सं० १८.४.१७)। <<छन्दसि सर्वे विधयो विकल्प्यन्ते>> इतीह न भवति — सप्तर्षिमन्तम्, ऋषिमान्, ऋतीमान्, सूर्यं ते द्यावापृथिवीमन्तमिति। रेफान्तात् — गीर्वान्। धूर्वान्। आशीर्वान्॥
इवर्णान्ताद्रेफान्ताच्च परस्य मतोर्मस्य वः स्यात् । हरिवते हर्यश्वाय (हरि॑वते॒ हर्य॑श्वाय) । गीर्वान् ॥