राजन्वान् सौराज्ये

8-2-14 राजन्वान् सौराज्ये पदस्य पूर्वत्र असिद्धम् मतोः वः सञ्ज्ञायाम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

राजन्वानिति निपात्यते सौराज्ये गम्यमाने। शोभनो राजा यस्मिन्निति स राजन्वान् देशः। राजन्वती पृथ्वी। राजवानित्येवान्यत्र॥

Siddhanta Kaumudi

Up

राजन्वती भूः । राजवानन्यत्र ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<राजन्वान् सौराज्ये>> - राजन्वान् सौराज्ये । सु=शोभनोराजा यस्य देशस्य स सुराजा, तस्य भावः सौराज्यम् । तस्मिन्नर्थे राजन्शब्दान्मतुपि 'मादुपधायाः' इति वत्वं सिद्धम् । नलोपाऽभावो निपात्यते ।

Padamanjari

Up

शोभनो राजा तस्य भावः सौराज्यम्, ब्राह्मणादित्वात्ष्यञ्, टिलोपः । तत्पुनः शोभनेन राज्ञा देशस्य सम्बन्धः । समासकृतद्धितेषु सम्बन्धाभिधानम्; भावप्रत्ययेनेति वचनात् । एतच्च राजन्वानित्यस्य प्रवृत्तिनिमितम्, देश एव त्वभिधेयः, यदाह - सौराज्ये गम्यमान इति । राजन्वानिति । प्रशंसायां मतुप्, नलोपाभावो निपात्यते । सूत्रे पुंल्लिङ्गस्याविवक्षितत्वं दर्शयति - राजन्वती पृथिवीति ॥