8-2-13 उदन्वान् उदधौ च पदस्य पूर्वत्र असिद्धम् मतोः वः सञ्ज्ञायाम्
उदन्वानित्युदकशब्दस्य मतावुदन्भावो निपात्यत उदधावर्थे संज्ञायां च विषये। उदन्वान् नाम ऋषिर्यस्यौदन्वतः पुत्रः। उदधौ — उदन्वान्। यस्मिन्नुदकं धीयते, स एवमुच्यते। उदधाविति किम्? उदकवान् घट इत्यत्र तु दधात्यर्थो न विवक्ष्यते। किं तर्हि? उदकसत्तासंबन्धसामान्यम्॥
उदकस्य उदन्भावो मतौ उदधौ संज्ञायं च । उदन्वान् समुद्रः ऋषिश्च ॥
<<उदन्वानुदधौ च>> - उदन्वानुदधौ च । उदधौ संज्ञायां चेति । वस्तुतस्तु उदन्वांश्चेत्येव सूत्रयितुमुचितं, संज्ञायामित्यनुवृत्त्यैव समुद्रेऽपि उदन्वच्छब्दस्य सिद्धत्वात् ।
उदन्वान्नाम ऋषिरिति । यस्य च कामवर्षो पर्जन्यः - यस्मिन्नुदकं धीयत इति, स पुनस्तटाकादिः ।'कर्मण्यधिकरणे च' इति किप्रत्ययः,'पेषंवासवाहनधिषु च' इति उदकस्योद्भावः । उदकसतासम्बन्धसामान्यमिति । तच्च देवदतादिष्वपि सम्भवति । असंज्ञार्थं वोदधिग्रहणम् ॥