प्लुतावैच इदुतौ

8-2-106 प्लुतौ ऐचः इदुतौ पदस्य पूर्वत्र असिद्धम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

दूराद्धूतादिषु प्लुतो विहितः। तत्र ऐचः प्लुतप्रसङ्गे तदवयवभूताविदुतौ प्लुतौ। ऐ३तिकायन। औ३पमन्यव। अत्र यदेवर्णोवर्णयोरवर्णस्य च समविभागः, तदेदुतौ द्विमात्रावनेन प्लुतौ क्रियेते। प्लुताविति हि क्रियानिमित्तोऽयं व्यपदेशः। इदुतौ प्लवेते वृद्धिं गच्छत इत्यर्थः। तावती च सा प्लुतिर्भवति, यावत्या तावैचौ त्रिमात्रौ संपद्येते। यदा त्वर्धमात्रावर्णस्याध्यर्धमात्रेवर्णोवर्णयोः, तदा तावर्धतृतीयमात्रौ क्रियेते इति। भाष्ये तूक्तम् — इष्यत एव चतुर्मात्रः प्लुत इति। तत् कथम्? समप्रविभागपक्ष इदुतोरनेन त्रिमात्रः प्लुतो विधीयते॥

Siddhanta Kaumudi

Up

दूराद्धूतादिषु प्लुतो विहितस्तत्रैव ऐचः प्लुतप्रसङ्गे तदवयवाविदुतौ प्लवेते । ऐ 3 तिकायन । औ 3 पगव । चतुर्मात्रावत्र ऐचौ संपद्येते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

प्लुतावैच इदुतौ॥ लक्षणान्तरेणैवैचोः प्लुतप्रसङ्गे तदवयवयोरिदुतोः प्लुतार्थं वचनम्। वचनसामर्थ्याद्वर्णैकदेशयोरपीदुद्ग्रहणेन ग्रहणम्। ऐचः प्लुतप्रसङ्गे इति। केचिदाहुः -'सूत्रे प्लुताविति प्लुतिशब्दात्सप्तमी, ऐचः प्लुतौ प्राप्तायामिति तदनेन दशितम्' इति, तदयुक्तम्; प्लुतौऽ इति हि क्रियानिमितोऽयं व्यपदेशः - इति प्रथमाद्विवचनान्तत्वेन व्याख्यास्यमानत्वात्। तस्मात् प्रकरणप्राप्तये तदुक्तम्। उदाहरणे दूराद्धूते'गुरोरनृतः' इत्येव प्लुतः। यदि ऐकारौकारयोरवयवयोरिदुतोः प्लुतः क्रियते, समुदायस्य चतुर्मात्रताऽर्धचतुर्थमात्रता वा प्राप्नोति, कथम्? इमावैचौ समाहारवर्णौ; मात्राऽवर्णस्य, मात्रेवर्णोवर्णयोः। अपरे त्वाहुः - अर्धमात्राऽवर्णस्य, अध्यर्धमात्रेवर्णीवर्णयोरिति। तत्र पूर्वस्मिन्कल्पे इदुतोरनेन प्लुते कृते तयोस्तिस्रो मात्राः, अवर्णस्य चैका मात्रेति समुदायश्चतुर्मात्रः प्राप्नोति, पक्षान्तरे त्वर्द्धचतुर्थमात्रः प्राप्नोत्यत आह - अत्रेति। ननु च त्रिमात्रस्याचः प्लुतसंज्ञा कृता, तत्कथं द्विमात्राविदुतावनेन शक्येते कर्तुम्? अत आह - प्लुताविति हीति। अनेन प्लुताविति कर्तरि निष्ठा, न संज्ञाशब्द इति दर्शयति। वृद्धिं गच्छत इत्यर्थ इति। अनेकार्थत्वाद्धातूनां प्लवतिर्वधनेऽपि वर्तते। नन्वेवमपि न ज्ञायते - कियती सा वृद्धिरिति? अत आह - तावती चेति। एवं मन्यते - प्रकृतमपि प्लुतग्रहणमत्र सम्बध्यते, ततश्चायमर्थो भवति - ऐचोऽवयवाविदुतौ तथा वर्धेते यथा ऐचौ प्लुतौ सम्पद्यते इति। तस्मादनभिमताया वृद्धेरप्रसङ्ग इति। अर्धतुतीयमात्राविति। अर्धरूपा तृतीयमात्रा ययोस्तौ तथोक्तौ। इष्यते चतुर्मात्रः प्लुत इति। चतुर्मात्रतया वृद्धिरिष्यत इत्यर्थः। अस्मिन्पक्षे चतुर्मात्रस्याच्त्वमपि भवति। तेन प्रत्यङ्ण्èóतिकायन इति ङ्मुङ् भवति; ग्लौ त्रातेति ठनचि चऽ इति तकारद्विर्वचनं भवति॥