अनन्त्यस्यापि प्रश्नाख्यानयोः

8-2-105 अनन्त्यस्य अपि प्रश्नाख्यानयोः पदस्य पूर्वत्र असिद्धम् स्वरितम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पदस्येति वर्तते, स्वरितमिति च। अनन्त्यस्यापि अन्त्यस्यापि पदस्य टेः प्लुतो भवति प्रश्न आख्याने च। अगम॑३ः पूर्वा॑३न् ग्रामा॑३न् अग्निभूता॑३इ, पटा॑३उ। सर्वेषामेव पदानामेष स्वरितः प्लतुः। अन्त्यस्य <<अनुदात्तं प्रश्नान्ताभिपूजितयोः>> ८.२.१०० इति अनुदात्तोऽपि पक्षे भवति। आख्याने — अगम॑३म् पूर्वा॑३न् ग्रामा॑३न् भोः॑३॥

Siddhanta Kaumudi

Up

अनन्त्यस्यान्त्यस्यापि पदस्य टेः स्वरितः प्लुतः एतयोः । अगमः 3पूर्वा 3 न् ग्रामा 3 न् । सर्वपदानामयम् । आख्याने । अगम3 म् पूर्वा 3 न् ग्रामा 3 न् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अनन्त्यस्यापि प्रश्नाख्यानयोः॥ सर्वेषामेव पदानामिति। नन्वन्त्यस्यानुदातम्,'प्रश्नान्ताभिपूजितयोः' इत्यनुदातप्लुतेन भवितव्यम्, तत्कथमेष स्वरितः प्लुतो भवति? अत आह - अनन्त्यस्येति। यद्यप्यत्र विकल्पो न श्रुतः, तथाप्यतेनापिशब्देनान्त्यस्याप्ययं स्वरितः प्लुतो भवति, ततश्चानुदातप्लुतः पाक्षिकः सम्पद्यते इति भावः। ननु चापिशब्द आख्यानेऽन्त्यसमुच्चयेन चरितार्थः, ततः किम्? प्रश्नेऽन्त्यस्यानुदातस्य नित्यं प्लुतः प्राप्नोति, तत्र विकल्पाभावान्नैष दोषः। प्रश्नेऽप्यपिशब्दस्य तात्पर्यं गम्यते; सहनिर्दिष्टत्वात्, ततश्च प्रश्नान्ते स्वरितानुदातयोः प्लुतयोर्विकल्पो भविष्यति॥