क्षियाऽऽशीःप्रैषेषु तिङ् आकाङ्क्षम्

8-2-104 क्षियाशीःप्रैषेषु तिङ् आकाङ्क्षम् पदस्य पूर्वत्र असिद्धम् स्वरितम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

स्वरित इति वर्तते। क्षिया आचारभेदः, आशीः प्रार्थनाविशेषः, शब्देन व्यापारणं प्रैषः — एतेषु गम्यमानेषु तिङन्तमाकाङ्क्षं यत् तस्य स्वरितः प्लुतो भवति। आकाङ्क्षतीत्याकाङ्क्षम्, तिङन्तमुत्तरपदमाकाङ्क्षतीत्यर्थः। क्षियायां तावत् — स्वयं रथेन याति॑३, उपाध्यायं पदातिं गमयतीति। स्वयम् आदेनं ह भुङ्क्ते॑३, उपाध्यायं सक्तून् पाययति। पूर्वमत्र तिङन्तमुत्तरपदमाकाङ्क्षतीति आकाङ्क्षं भवति। आशिषि — सुतांश्च लप्सीष्ट॑३ धनं च तात। छन्दोऽध्येषीष्ट॑३ व्याकरणं च भद्र। प्रैषे — कटं कुरु॑३ ग्रामं च गच्छ। यवान् लुनीहि॑३ सक्तूंश्च पिब। आकाङ्क्षमिति किम् ? दीर्घं त आयुरस्तु। अग्नीन् विहर॥

Siddhanta Kaumudi

Up

आकाङ्क्षस्य तिङन्तस्य टेः स्वरितः प्लुतः स्यादाचारभेदे । स्वयं ह रथेन याति 3 उपाध्यायं पदातिं गमयति । प्रार्थनायाम् । पुत्रंश्च लप्सीष्ट 3 धनं च तात । व्यापारणे । कटं कुरु 3 ग्रामं गच्छ । आकाङ्क्षं किम् । दीर्घायुरसि अग्नीदग्नीन्विहर ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

क्षियाशीः प्रैषेषु तिङकाक्षम्॥ क्षिया उ आचारभेदः, आचारोल्लङ्घनम्। इष्टाशंसनमुआशीः। शब्देन व्यापारणमुप्रैषः। क्वचिद् वृतावप्ययं ग्रन्थः पठ।ल्ते। दीर्घं ते आयुरस्तु, अग्नीन्विहरेति। क्षियायां तु न प्रत्युदाहृतम्; नित्यसाकाङ्क्षत्वात्। न हि'स्वयं ह रथेन याति' इत्येतावत्युक्ते आचारभेदो गम्यते, किं तर्हि?ठुपाध्यायां पदातिं गमयतिऽइत्युक्ते। इह ठुपरिस्विदासीदिति चऽ इत्यस्यानन्तरम् ठङ्गयुक्तं तिङकाङ्क्षम्ऽ इति वक्तव्यम्, ततः'क्षियाशीः प्रैषेषु स्वरितः' इति, ततः ठाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषुऽ इति, एवं हि तिङकाङ्क्षग्रहणं द्विर्न कर्तव्यं भवति? तथा तु न कृतमित्येव॥