8-2-102 उपरि स्वित् आसीत् इति च पदस्य पूर्वत्र असिद्धम् अनुदात्तं
अनुदात्तमिति वर्तते। उपरिस्विदासीदित्येतस्य टेरनुदात्तः प्लुतो भवति। अ॒धस्स्वि॑दा॒सी३द् उ॒परि॑ स्विदासी३त् (तै०ब्रा०२.८.९.५)। अधः स्विदासीदित्यत्र <<विचार्यमाणानाम्>> ८.२.९७ इत्युदात्तः प्लुतः। उपरिस्विदासीदित्यत्र तु अनेनानुदात्तः॥
टेः प्लुतोऽनुदात्तः स्यात् । उपरिस्विदासी 3 त् (उ॒परि॑स्विदासी 3 त्) । अधः स्विदासी 3 त् (अ॒धः स्वि॑दा॒सी 3 त्) इत्यत्र तु विचार्यमाणानाम् <{SK3616}> इत्युदात्तः प्लुतः ॥
उपरिस्विदासीदिति च॥ अत्रापि'विचार्यमाणानाम्' इति विहितस्य प्लुतस्य गुणमात्रं विधीयते॥